श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा।
आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ॥ 7.89.1 ॥
अथ रामः कथामेतां भूय एव महायशाः।
कथयामास धर्मात्मा प्रजापतिसुतस्य वै ॥ 7.89.2 ॥
सर्वास्ता विद्रुता दृष्ट्वा किन्नरीर्ऋषिसत्तमः।
उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव ॥ 7.89.3 ॥
सोमस्याहं सुदयितः सुतः सुरुचिरानने।
भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ॥ 7.89.4 ॥
तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते।
इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ॥ 7.89.5 ॥
अहं कामचरी सौम्य तवास्मि वशवर्तिनी।
प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ॥ 7.89.6 ॥
तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः।
स वै कामी सह तया रेमे चन्द्रमसः सुतः ॥ 7.89.7 ॥
बुधस्य माधवो मासस्तामिलां रुचिराननाम्।
गतो रमयतोऽत्यर्थं क्षणवत्तस्य कामिनः ॥ 7.89.8 ॥
अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः।
प्रजापतिसुतः श्रीमाञ्छयने प्रत्यबुध्यत ॥ 7.89.9 ॥
सोऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये।
ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ॥ 7.89.10 ॥
भगवन्पर्वतं दुर्गं प्रविष्टोऽस्मि सहानुगः।
न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ॥ 7.89.11 ॥
तच्छ्रुत्वा तस्य राजर्षेर्नष्टसञ्ज्ञस्य भाषितम्।
प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ॥ 7.89.12 ॥
अश्मवर्षेण महता भृत्यास्ते विनिपातिताः।
त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ॥ 7.89.13 ॥
समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः।
फलमूलाशनो वीर निवसेह यथासुखम् ॥ 7.89.14 ॥
स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः।
प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद् भृशम् ॥ 7.89.15 ॥
त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः।
वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ॥ 7.89.16 ॥
सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः।
शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ॥ 7.89.17 ॥
न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान्।
प्रतिवक्तुं महातेजः किञ्चिदप्यशुभं वचः ॥ 7.89.18 ॥
तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम्।
सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ॥ 7.89.19 ॥
न सन्तापस्त्वया कार्यः कार्दमेय महाबल।
संवत्सरोषितस्येह कारयिष्यामि ते हितम् ॥ 7.89.20 ॥
तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः।
वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ॥ 7.89.21 ॥
मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुदा।
मासं पुरुषभावेन धर्मबुद्धिं चकार सः ॥ 7.89.22 ॥
ततः सा नवमे मासि इला सोमसुतात्सुतम्।
जनयामास सुश्रोणी पुरूरवसमूर्जितम् ॥ 7.89.23 ॥
जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत्।
बुधस्य समवर्णभमिला पुत्रं महाबलम् ॥ 7.89.24 ॥
बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम्।
कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ॥ 7.89.25 ॥