०८८ किम्-पुरुष-स्त्री-करणम्

तां कथामिलसम्बद्धां रामेण समुदीरिताम्।
लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ 7.88.1 ॥
तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः।
विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ 7.88.2 ॥
कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः।
पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥ 7.88.3 ॥
तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम्।
कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥ 7.88.4 ॥
तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी।
ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ॥ 7.88.5 ॥
तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी।
द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥ 7.88.6 ॥
वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः।
पर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥ 7.88.7 ॥
अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः।
सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ॥ 7.88.8 ॥
ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा।
ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ॥ 7.88.9 ॥
तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम्।
यशस्करं कामकरं कारुण्ये पर्यवस्थितम् ॥ 7.88.10 ॥
सा तं जलाशयं सर्वं क्षोभयामास विस्मिता।
सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥ 7.88.11 ॥
बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः।
नोपलेभे तदाऽऽत्मानं सञ्चचाल तदाऽऽम्भसि ॥ 7.88.12 ॥
इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम्।
चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका ॥ 7.88.13 ॥
न देवीषु न नागीषु नासुरीष्वप्सरःसु च।
दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥ 7.88.14 ॥
सदृशीयं मम भवेद्यदि नान्यपरिग्रहः।
इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ॥ 7.88.15 ॥
आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः।
शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥ 7.88.16 ॥
स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी।
किमर्थमागता चैव सर्वमाख्यात मा चिरम् ॥ 7.88.17 ॥
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम्।
श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ॥ 7.88.18 ॥
अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा।
अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ॥ 7.88.19 ॥
तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च।
विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ॥ 7.88.20 ॥
सोऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम्।
सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥ 7.88.21 ॥
अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ।
आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् ॥ 7.88.22 ॥
मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा।
स्त्रियः किम्पुरुषान्नाम भर्तॄन्समुपलप्स्यथ ॥ 7.88.23 ॥
ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः।
उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥ 7.88.24 ॥