०८७ इल-स्त्री-भावः

तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः।
प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥ 7.87.1 ॥
एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण।
वृत्रघातमशेषेण वाजिमेधफलं च यत् ॥ 7.87.2 ॥
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः।
पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महाशयाः ॥ 7.87.3 ॥
स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः।
राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥ 7.87.4 ॥
सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः।
नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ॥ 7.87.5 ॥
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन।
अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ॥ 7.87.6 ॥
स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः।
बुद्ध्या च परमोदारो बाह्लीकेशो महायशाः ॥ 7.87.7 ॥
स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने।
चैत्रे मनोरमे मासि सभृत्यबलवाहनः ॥ 7.87.8 ॥
प्रजघ्ने च नृपोऽरण्ये मृगाञ्छतसहस्रशः।
हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ॥ 7.87.9 ॥
नानामृगाणामयुतं वध्यमानं महात्मना।
यत्र जातो माहासेनस्तं देशमुपचक्रमे ॥ 7.87.10 ॥
तस्मिन्प्रदेशे देवेश शैलराजसुतां हरः।
रमयामास दुर्धर्षः सर्वैरनुचरैः सह ॥ 7.87.11 ॥
कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः।
देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ॥ 7.87.12 ॥
ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः।
वृक्षाः पुरुषनामानस्तेऽभवन् स्त्रीजनास्तदा ॥ 7.87.13 ॥
एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः।
निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥ 7.87.14 ॥
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षकम्।
आत्मनं स्त्रीकृतं चैव सानुगं रघुनन्दन ॥ 7.87.15 ॥
तस्य दुःखं महच्चासीद्दृष्ट्वाऽऽत्मानं तथागतम्।
उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ॥ 7.87.16 ॥
ततो देवं महात्मानं शितिकण्ठं कपर्दिनम्।
जगाम शरणं राजा सभृत्यबलवाहनः ॥ 7.87.17 ॥
ततः प्रहस्य वरदः सह देव्या महेश्वरः।
प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ॥ 7.87.18 ॥
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल।
पुरुषत्वमृते सौम्य वरं वरय सुव्रत ॥ 7.87.19 ॥
ततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना।
न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥ 7.87.20 ॥
ततः शोकेन महता शैलराजसुतां नृपः।
प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ॥ 7.87.21 ॥
ईशे वराणां वरदे लोकानामसि भामिनी।
अमोघदर्शने देवी भज सौम्येन चक्षुषा ॥ 7.87.22 ॥
हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ।
प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य सम्मता ॥ 7.87.23 ॥
अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम्।
तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥ 7.87.24 ॥
तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम्।
सम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥ 7.87.25 ॥
यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि।
मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥ 7.87.26 ॥
ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना।
प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ॥ 7.87.27 ॥
राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि।
स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ॥ 7.87.28 ॥
एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः।
त्रैलोक्यसुन्दरी नारी मासमेकमिलाऽभवत् ॥ 7.87.29 ॥