तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः।
कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ॥ 7.86.1 ॥
ततो हते महावीर्ये वृत्रे देवभयङ्करे।
ब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ॥ 7.86.2 ॥
सोऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः।
कालं तत्रावसत्कञ्चिद्वेष्टमान इवोरगः ॥ 7.86.3 ॥
अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत्।
भूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ॥ 7.86.4 ॥
निःस्रोतसश्च ते सर्वे तु ह्रदाश्च सरितस्तथा।
सङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥ 7.86.5 ॥
क्षीयमाणे तु लोकेऽस्मिन्सम्भ्रान्तमनसः सुराः।
यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥ 7.86.6 ॥
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः।
तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ॥ 7.86.7 ॥
ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया।
तं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ॥ 7.86.8 ॥
ततोऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः।
ववृधे ब्रह्महत्ययाः पावनार्थं नरेश्वर ॥ 7.86.9 ॥
ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः।
अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥ 7.86.10 ॥
ते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः।
चतुर्धा विभजात्मानमात्मनैव दुरासदे ॥ 7.86.11 ॥
देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम्।
सन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ 7.86.12 ॥
एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै।
चतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ॥ 7.86.13 ॥
भूम्यामहं सर्वकालमेकेनांशेन सर्वदा।
वसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ॥ 7.86.14 ॥
योऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु।
त्रिरात्रं दर्पपूर्णासु वशिष्ये दर्पघातिनी ॥ 7.86.15 ॥
हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान्।
तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ 7.86.16 ॥
प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे।
तथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ॥ 7.86.17 ॥
ततः प्रीत्याऽन्विता देवाः सहस्राक्षं ववन्दिरे।
विज्वरः स च पूतात्मा वासवः समपद्यत ॥ 7.86.18 ॥
प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते।
यज्ञं चाद्भुतसङ्काशं तदा शक्रोऽभ्यपूजयत् ॥ 7.86.19 ॥
ईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन।
यजस्व सुमहाभाग हयमेधेन पार्थिव ॥ 7.86.20 ॥
इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा।
परितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ॥ 7.86.21 ॥