लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः।
वृत्रघातमशेषेण कथयेत्याह सुव्रत ॥ 7.85.1 ॥
राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः।
भूय एव कथां दिव्यां कथयामास सुव्रतः ॥ 7.85.2 ॥
सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम्।
विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ 7.85.3 ॥
पूर्वं सौहृदबद्धोऽस्मि वृत्रस्य ह महात्मनः।
तेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ॥ 7.85.4 ॥
अवश्यं करणीयं च भवतां सुखमुत्तमम्।
तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ॥ 7.85.5 ॥
त्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः।
तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥ 7.85.6 ॥
एकांशो वासवं यातु द्वितीयो वज्रमेव तु।
तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ॥ 7.85.7 ॥
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन्।
एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ॥ 7.85.8 ॥
भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः।
भजस्व परमोदार वासवं स्वेन तेजसा ॥ 7.85.9 ॥
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः।
तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः ॥ 7.85.10 ॥
ते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम्।
पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥ 7.85.11 ॥
दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन्।
कथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥ 7.85.12 ॥
तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः।
वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ॥ 7.85.13 ॥
कालाग्निनेव घोरेण तप्तेनैव महार्चिषा।
पतता वृत्रशिरसा जगत्त्रासमुपागमत् ॥ 7.85.14 ॥
असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः।
चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥ 7.85.15 ॥
तमिन्द्रं ब्रह्महत्याऽऽशु गच्छन्तमनुगच्छति।
अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ 7.85.16 ॥
हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः।
विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥ 7.85.17 ॥
त्वं गतिः परमेशान पूर्वजो जगतः पिता।
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ 7.85.18 ॥
हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम्।
बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ॥ 7.85.19 ॥
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत्।
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥ 7.85.20 ॥
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः।
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ॥ 7.85.21 ॥
एवं सन्दिश्य तां वाणीं देवानाममृतोपमाम्।
जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ॥ 7.85.22 ॥