०८४ वृत्र-तपः

तथोक्तवति रामे तु भरते च महात्मनि।
लक्ष्मणोऽथ शुभं वाक्यमुवाच रघुनन्दनम् ॥ 7.84.1 ॥
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम्।
पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥ 7.84.2 ॥
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि।
ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ॥ 7.84.3 ॥
पुरा किल महाबाहो देवासुरसमागमे।
वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ॥ 7.84.4 ॥
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः।
अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ॥ 7.84.5 ॥
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः।
शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ॥ 7.84.6 ॥
तस्मिन्प्रशासति तदा सर्वकामदुघा मही।
रसवन्ति प्रभूनानि मूलानि च फलानि च ॥ 7.84.7 ॥
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः।
स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ॥ 7.84.8 ॥
तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम्।
तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ॥ 7.84.9 ॥
स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम्।
तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ॥ 7.84.10 ॥
तपस्तप्यति वृत्रे तु वासवः परमार्तवत्।
विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ॥ 7.84.11 ॥
तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः।
बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ॥ 7.84.12 ॥
यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर।
यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥ 7.84.13 ॥
तं चैनं परमोदारमुपेक्षसि महाबलम्।
क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ॥ 7.84.14 ॥
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः।
तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ॥ 7.84.15 ॥
स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः।
त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् ॥ 7.84.16 ॥
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः।
वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ॥ 7.84.17 ॥
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम्।
असह्यमिदमन्येषामगतीनां गतिर्भवान् ॥ 7.84.18 ॥