०८३ राज-सूय-विचारः

तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्ट कर्मणः।
द्वास्स्थः कुमारावाहूय राघवाय न्यवेदयत् ॥ 7.83.1 ॥
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ।
परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ॥ 7.83.2 ॥
कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम्।
धर्मसेतुमथो भूयः कर्तुमिच्छामि राघवौ ॥ 7.83.3 ॥
अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम।
धर्मप्रसाधकं ह्येतत् सर्वपापप्रणाशनम् ॥ 7.83.4 ॥
युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम्।
सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ॥ 7.83.5 ॥
इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः।
सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ॥ 7.83.6 ॥
सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित्।
प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ॥ 7.83.7 ॥
अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह।
हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ॥ 7.83.8 ॥
श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः।
भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ 7.83.9 ॥
त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा।
प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ॥ 7.83.10 ॥
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः।
निरीक्षन्ते महात्मानं लोकानाथं यथा वयम् ॥ 7.83.11 ॥
पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल।
पृथिव्या गतिभूतोऽसि प्राणिनामपि राघव ॥ 7.83.12 ॥
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप।
पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥ 7.83.13 ॥
पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः।
सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ॥ 7.83.14 ॥
स त्वं पुरुषशार्दूल गुणैरतुलविक्रम।
पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ॥ 7.83.15 ॥
भरतस्य तु तद्वाक्यं श्रुत्वाऽमृतमयं तदा।
प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ॥ 7.83.16 ॥
उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम्।
प्रीतोऽस्मि परितुष्टोऽस्मि तवाद्य वचनेऽनघ ॥ 7.83.17 ॥
इदं वचनमक्लीबं त्वया धर्मसमाहितम्।
व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ॥ 7.83.18 ॥
एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात्।
निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ॥ 7.83.19 ॥
बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज।
तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते ॥ 7.83.20 ॥