ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम्।
उपाक्रमत्सरः पुण्यमप्सरोगणसेवितम् ॥ 7.82.1 ॥
तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम्।
आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ॥ 7.82.2 ॥
तस्यागस्त्यो बहुगुणं कन्दमूलं तथौषधिम्।
शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ॥ 7.82.3 ॥
स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम्।
प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ॥ 7.82.4 ॥
प्रभाते काल्यमुत्थाय कृत्वाऽऽह्निकमरिन्दमः।
ऋषिं समुपचक्राम गमनाय रघूत्तमः ॥ 7.82.5 ॥
अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसम्भवम्।
आपृच्छे स्वां पुरीं गन्तुं मामनुज्ञातुमर्हसि ॥ 7.82.6 ॥
धन्योऽस्म्यनुगृहीतोऽस्मि दर्शनेन महात्मनः।
द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ॥ 7.82.7 ॥
तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम्।
उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ॥ 7.82.8 ॥
अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम्।
पावनः सर्वभूतानां त्वमेव रघुनन्दन ॥ 7.82.9 ॥
मुहूर्तमपि राम त्वां ये च पश्यन्ति केचन।
पाविताः स्वर्गभूताश्च पूज्यास्ते सर्वदैवतैः ॥ 7.82.10 ॥
ये च त्वां घोरचक्षुर्भिः पश्यन्ति प्राणिनो भुवि।
हतास्ते यमदण्डेन सद्यो निरयगामिनः ॥ 7.82.11 ॥
ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम्।
भुवि त्वां कथयन्तोऽपि सिद्धिमेष्यन्ति राघव ॥ 7.82.12 ॥
गच्छ चारिष्टमव्याग्रः पन्थानमकुतोभयम्।
प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ॥ 7.82.13 ॥
एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः।
अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम् ॥ 7.82.14 ॥
अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान्।
अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ॥ 7.82.15 ॥
तं प्रयान्तं मुनिगणा ह्याशीर्वादैः समन्ततः।
अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ॥ 7.82.16 ॥
स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते।
शशी मेघसमीपस्थो यथा जलधरागमे ॥ 7.82.17 ॥
ततोऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः।
अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत् ॥ 7.82.18 ॥
ततो विसृज्य रुचिरं पुष्पकं कामगामि तत्।
विसर्जयित्वा गच्छेति स्वस्ति तेऽस्त्विति च प्रभुः ॥ 7.82.19 ॥
लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ।
ममागमनमाख्याय शब्दापयत मा चिरम् ॥ 7.82.20 ॥