०८१ शापः

स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः।
स्वमाश्रमं शिष्यवृतः क्षुधार्तः सन्न्यवर्तत ॥ 7.81.1 ॥
सोऽपश्यदरजां दीनां रजसा समभिप्लुताम्।
ज्योत्स्नामिव ग्रहग्रस्तां प्रत्यूषे न विराजतीम् ॥ 7.81.2 ॥
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः।
निर्दहन्निव लोकांस्त्रीञ्छिष्यांश्चैतदुवाच ह ॥ 7.81.3 ॥
पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः।
विपत्तिं घोरसङ्काशां क्रुद्धामग्निशिखामिव ॥ 7.81.4 ॥
क्षयोऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः।
यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥ 7.81.5 ॥
यस्मात्स कृतवान्पापमीदृशं घोरसंहितम्।
तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥ 7.81.6 ॥
सप्तरात्रेण राजासौ सभृत्यबलवाहनः।
पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥ 7.81.7 ॥
समन्ताद्योजनशतं विषयं चास्य दुर्मतेः।
धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥ 7.81.8 ॥
सर्वसत्वानि यानीह स्थावराणि चराणि च।
महता पांसुवर्षेण विलयं सर्वतोऽगमन् ॥ 7.81.9 ॥
दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम्।
पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ॥ 7.81.10 ॥
इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम्।
जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥ 7.81.11 ॥
श्रुत्वा तूशनसो वाक्यं सोऽऽश्रमावसथो जनः।
निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रेऽथ बाह्यतः ॥ 7.81.12 ॥
स तथोक्त्वा मुनिजनमरजामिदमब्रवीत्।
इहैव वस दुर्मेधे आश्रमे सुसमाहिता ॥ 7.81.13 ॥
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम्।
अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् ॥ 7.81.14 ॥
त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम्।
अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा ॥ 7.81.15 ॥
तथेति पितरं प्राह भार्गवं भृशदुःखिता।
इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ॥ 7.81.16 ॥
तच्च राज्यं नरेन्द्रस्य सभृत्यबलवाहनम्।
सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ॥ 7.81.17 ॥
तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप।
शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ॥ 7.81.18 ॥
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते।
तपस्विनः स्थिता ह्यत्र जनस्थानमतोऽभवत् ॥ 7.81.19 ॥
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव।
सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ॥ 7.81.20 ॥
एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः।
कृतोदका नरव्याघ्र आदित्यं पर्युपासते ॥ 7.81.21 ॥
स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः।
रविरस्तं गतो राम गच्छोदकमुपस्पृश ॥ 7.81.22 ॥