०८० बलाद् अरजो-भोगः

एतदाख्याय रामाय महर्षिः कुम्भसम्भवः।
अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ 7.80.1 ॥
ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम्।
अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ 7.80.2 ॥
अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम्।
रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ॥ 7.80.3 ॥
तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि।
विचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम् ॥ 7.80.4 ॥
स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः।
अभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥ 7.80.5 ॥
कुतस्त्वमसि सुश्रोणि कस्य वाऽसि सुता शुभे।
पीडितोऽहमनङ्गेन गच्छामि त्वां शुभानने ॥ 7.80.6 ॥
तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः।
भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ॥ 7.80.7 ॥
भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः।
अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ 7.80.8 ॥
गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः।
व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ॥ 7.80.9 ॥
यदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा।
वरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ॥ 7.80.10 ॥
अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम्।
क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ॥ 7.80.11 ॥
दास्यते चानवद्याङ्ग तव मा याचितः पिता ॥ 7.80.12 ॥
एवं ब्रुवाणामरजां दण्डः कामवशं गतः।
प्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ 7.80.13 ॥
प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि।
त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ 7.80.14 ॥
त्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः।
भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥ 7.80.15 ॥
एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली।
विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥ 7.80.16 ॥
एतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम्।
नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ 7.80.17 ॥
अरजाऽपि रुदन्ती सा आश्रमस्याविदूरतः।
प्रतीक्षन्ति सुसन्त्रस्ता पितरं देवसन्निभम् ॥ 7.80.18 ॥