०७९ दण्ड-राज्यम्

तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः।
गौरवाद्विस्मयाच्चैव पुनः प्रष्टुं प्रचक्रमे ॥ 7.79.1 ॥
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः।
श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ॥ 7.79.2 ॥
तद्वनं स कथ राजा शून्यं मनुजवर्जितम्।
तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ॥ 7.79.3 ॥
रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम्।
वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥ 7.79.4 ॥
पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः।
तस्य पुत्रो महानासीदिक्ष्वाकुः कुलनन्दनः ॥ 7.79.5 ॥
तं पुत्रं पूर्वङ्कं राज्ये निक्षिप्य भुवि दुर्जयम्।
पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ॥ 7.79.6 ॥
तथैवेति प्रतिज्ञातं पितुः पुत्रेण राघव।
ततः परमसन्तुष्टो मनुः पुत्रमुवाच ह ॥ 7.79.7 ॥
प्रीतोऽस्मि परमोदार त्वं कर्ताऽसि न संशयः।
दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥ 7.79.8 ॥
अपराधिषु यो दण्डः पात्यते मानवेषु वै।
स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥ 7.79.9 ॥
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक।
धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥ 7.79.10 ॥
इति तं बहु सन्दिश्य मनुः पुत्रं समाधिना।
जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ॥ 7.79.11 ॥
प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः।
जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् ॥ 7.79.12 ॥
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतस्सुतान्।
जनयामास धर्मात्मा शतं देवसुतोपमान् ॥ 7.79.13 ॥
तेषामवरजस्तात सर्वेषां रघुनन्दन।
मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् ॥ 7.79.14 ॥
नाम तस्य च दण्डेति पिता चक्रेऽल्पमेधसः।
अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति ॥ 7.79.15 ॥
अपश्यमानस्तं देशं घोरं पुत्रस्य राघव।
विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ॥ 7.79.16 ॥
स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि।
पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ॥ 7.79.17 ॥
पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो।
पुरोहितं तूशनसं वरयामास सुव्रतम् ॥ 7.79.18 ॥
एवं स राजा तद्राज्यमकरोत्सपुरोहितः।
प्रहृष्टमनुजाकीर्णं देवराजं यथा वृषा ॥ 7.79.19 ॥
ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम्।
चकार राज्यं सुमहान्महात्मा शक्रो दिवीवोशनसा समेतः ॥ 7.79.20 ॥