श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम्।
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ॥ 7.78.1 ॥
शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः।
अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ॥ 7.78.2 ॥
पुरा वैदर्भको राजा पिता मम महायशाः।
सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ 7.78.3 ॥
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत।
अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत् ॥ 7.78.4 ॥
ततः पितरि स्वर्याते पौरा मामभ्यषेचयन्।
तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ॥ 7.78.5 ॥
एवं वर्षसहस्राणि समतीतानि सुव्रत।
राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ॥ 7.78.6 ॥
सोऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम।
कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ॥ 7.78.7 ॥
सोऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम्।
तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे ॥ 7.78.8 ॥
भ्रातरं सुरथं राज्ये ह्यभिषिच्य महीपतिम्।
इदं सरः समासाद्य तपस्तप्तं मया चिरम् ॥ 7.78.9 ॥
सोऽहं वर्षसहस्राणि तपस्त्रीणि महावने।
तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ॥ 7.78.10 ॥
बाधेते परमोदार ततोऽहं व्यथितेन्द्रियः।
गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ॥ 7.78.11 ॥
भगवन्ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः।
कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ॥ 7.78.12 ॥
आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥ 7.78.13 ॥
पितामहस्तु मामाह तवाहारः सुदेवज।
स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ॥ 7.78.14 ॥
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम्।
अनुप्तं रोहते श्वेत न कदाचिन्महामते ॥ 7.78.15 ॥
पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप।
न हि दत्ता त्वयेन्द्राभ यस्मादतिथयेऽपि वै ॥ 7.78.16 ॥
दत्तं न तेऽस्ति सूक्ष्मोऽपि तप एव निषेवसे।
तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ॥ 7.78.17 ॥
स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम्।
भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यति ॥ 7.78.18 ॥
यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः।
आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यते ॥ 7.78.19 ॥
स हि तारयितुं सौम्य शक्तः सुरगणानपि।
किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ॥ 7.78.20 ॥
सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम्।
आहारं गर्हितं स्वशरीरं द्विजोत्तम ॥ 7.78.21 ॥
बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया।
क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ॥ 7.78.22 ॥
तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोचय।
अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ॥ 7.78.23 ॥
इदमाभरणं सौम्य तारणार्थं द्विजोत्तम।
प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ॥ 7.78.24 ॥
इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज।
भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ॥ 7.78.25 ॥
सर्वान्कामान्प्रयच्छामि भोगांश्च मुनिपुङ्गव।
तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ॥ 7.78.26 ॥
तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम्।
तारणायोपजग्राह तदाभरणमुत्तमम् ॥ 7.78.27 ॥
मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे।
मानुषः पूर्वको देहो राजर्षेर्विननाश ह ॥ 7.78.28 ॥
प्रनष्टे तु शरीरेऽसौ राजर्षिः परया मुदा।
तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ॥ 7.78.29 ॥
तेनेदं शक्रतुल्येन दिव्यमाभरणं मम।
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ॥ 7.78.30 ॥