०७७ उपक्रमः

पुरा त्रेतायुगे राम बभूव बहुविस्तरम्।
समन्ताद्योजनशतं विमृगं पक्षिवर्जितम् ॥ 7.77.1 ॥
तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम्।
अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ॥ 7.77.2 ॥
तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह।
फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः ॥ 7.77.3 ॥
तस्यारण्यस्य मध्ये तु सरो योजनमायतम्।
हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ 7.77.4 ॥
पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम्।
तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम् ॥ 7.77.5 ॥
अरजस्कं तथाऽक्षोभ्यं श्रीमत्पक्षिगणायुतम्।
समीपे तस्य सरसो महदद्भुतमाश्रमम् ॥ 7.77.6 ॥
पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम्।
तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ॥ 7.77.7 ॥
प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे।
अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ॥ 7.77.8 ॥
पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम्।
तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ॥ 7.77.9 ॥
तमर्थं चिन्तयानोऽहं मुहूर्तं तत्र राघव।
उषितोऽस्मि सरस्तीरे किन्न्विदं स्यादिति प्रभो ॥ 7.77.10 ॥
अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम्।
विमानं परमोदारं हंसयुक्तं मनोजवम् ॥ 7.77.11 ॥
अत्यर्थं स्वर्गिणं त विमाने रघुनन्दन।
उपास्तेऽप्सरसां वीर सहस्रं दिव्यभूषणम् ॥ 7.77.12 ॥
गायन्ति दिव्यगेयानि वादयन्ति तथाऽपराः।
क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथाऽपराः ॥ 7.77.13 ॥
अपराश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः।
दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ॥ 7.77.14 ॥
पश्यतो मे तदा राम विमानादवरुह्य च।
तं शवं भक्षयामास स स्वर्गी रघुनन्दन ॥ 7.77.15 ॥
तथा भुक्त्वा यथाकामं मांसं बहु सुपीवरम्।
अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ॥ 7.77.16 ॥
उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव।
आरोढुमुपचक्राम विमानवरमुत्तमम् ॥ 7.77.17 ॥
तमहं देवसङ्काशमारोहन्तमुदीक्ष्य वै।
अथाहमब्रुवं वाक्यं स्वर्गिणं पुरुषर्षभ ॥ 7.77.18 ॥
को भवान्देवसङ्काश आहारश्च विगर्हितः।
त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ॥ 7.77.19 ॥
कस्य स्यादीदृशो भाव आहारो देवसम्मतः।
आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ॥ 7.77.20 ॥
नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम् ॥ 7.77.21 ॥
इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च।
श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति ॥ 7.77.22 ॥