तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः।
अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ॥ 7.76.1 ॥
शूद्रयोन्यां प्रसूतोऽस्मि शम्बूको नाम नामतः।
देवत्वं पार्थये राम सशरीरो महायशः ॥ 7.76.2 ॥
न मिथ्याऽहं वदे राम देवलोकजिगीषया।
शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ॥ 7.76.3 ॥
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम्।
निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ॥ 7.76.4 ॥
तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः।
साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ॥ 7.76.5 ॥
पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम्।
पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥ 7.76.6 ॥
सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम्।
सुरकार्यमिदं सौम्य सुकृतं ते महामते ॥ 7.76.7 ॥
गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम।
स्वर्गभाङ्नहि शूद्रोऽयं त्वत्कृते रघुनन्दन ॥ 7.76.8 ॥
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः।
उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥ 7.76.9 ॥
यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु।
दिशन्तु वरमेतं मे इप्सितं परमं मम ॥ 7.76.10 ॥
ममापचाराद्यातोऽसौ ब्राह्मणस्यैकपुत्रकः।
अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥ 7.76.11 ॥
तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ।
द्विजस्य संश्रुतोऽर्थो मे जीवयिष्यामि ते सुतम् ॥ 7.76.12 ॥
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः।
प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥ 7.76.13 ॥
निर्वृतो भव काकुत्स्थ सोऽस्मिन्नहनि बालकः।
जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ॥ 7.76.14 ॥
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रोऽयं विनिपातितः।
तस्मिन्मुहूर्ते बालोऽसौ जीवेन समयुज्यत ॥ 7.76.15 ॥
स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ।
अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥ 7.76.16 ॥
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः।
द्वादशं हि गतं वर्षं जलशय्यां समासतः ॥ 7.76.17 ॥
काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम्।
त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥ 7.76.18 ॥
स तथेति प्रतिज्ञाय देवानां रघुनन्दनः।
आरुरोह विमानं तं पुष्पकं हेमभूषितम् ॥ 7.76.19 ॥
ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः।
रामोऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ॥ 7.76.20 ॥
दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः।
अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ॥ 7.76.21 ॥
प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम्।
जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ॥ 7.76.22 ॥
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च।
ततोऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ॥ 7.76.23 ॥
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा।
आतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ 7.76.24 ॥
तमुवाच महातेजाः कुम्भयोनिर्महातपाः।
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ॥ 7.76.25 ॥
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः।
अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ॥ 7.76.26 ॥
सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम्।
ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ 7.76.27 ॥
उष्यतां चेह रजनी सकाशे मम राघव।
प्रभाते पुष्पकेण त्वं गन्ताऽसि पुरमेव हि ॥ 7.76.28 ॥
त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम्।
त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ॥ 7.76.29 ॥
दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा।
प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥ 7.76.30 ॥
दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते।
भरणे हि भवान् शक्तः सेन्द्राणां मरुतामपि ॥ 7.76.31 ॥
त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः।
तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ॥ 7.76.32 ॥
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥ 7.76.33 ॥
अथोवाच महात्मानमिक्ष्वाकूणां महारथः।
रामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ॥ 7.76.34 ॥
प्रतिग्रहोऽयं भगवन्ब्राह्मणस्याविगर्हितः।
गृह्णीयां क्षत्रियोऽहं वै कथं ब्राह्मणपुङ्गव ॥ 7.76.35 ॥
ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि।
एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ॥ 7.76.36 ॥
आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे।
अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥ 7.76.37 ॥
ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन्।
सुराणां स्थापितो राजा त्वया देव शतक्रतुः ॥ 7.76.38 ॥
यस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि।
न वसामो विना राज्ञा एष नो निश्चयः परः ॥ 7.76.39 ॥
प्रजानां वचनं श्रुत्वा निश्चयित्वाऽर्थमुत्तमम् ॥ 7.76.40 ॥
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान्।
समाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ॥ 7.76.41 ॥
ततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः।
अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ॥ 7.76.42 ॥
तं ब्रह्मा लोकपालानां सहांशैः समयोजयत्।
ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ॥ 7.76.43 ॥
तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः।
वारुणेन तु भागेन वपुः पुष्यति पार्थिवः ॥ 7.76.44 ॥
कौबेरेण तु भागेन वित्तमासां ददौ तदा।
यस्तु याम्योऽभवद्भागस्तेन शास्ति स्म स प्रजाः ॥ 7.76.45 ॥
तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन।
प्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ॥ 7.76.46 ॥
तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम्।
तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ॥ 7.76.47 ॥
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम्।
आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ॥ 7.76.48 ॥
अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम्।
कथं वा भगवता प्राप्तं कुतो वा केन वा हृतम् ॥ 7.76.49 ॥
कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः।
आश्चर्याणां बहूनां हि निधिः परमको भवान् ॥ 7.76.50 ॥
एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत्।
शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ॥ 7.76.51 ॥
रमणीयप्रदेशेऽस्मिन् वने यद्दृष्टवानहम्।
आश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ॥ 7.76.52 ॥