०७५ व्यभिचार्य्-अन्वेषणम्

नारदस्य तु तद्वाक्यं श्रुत्वाऽमृतमयं तदा।
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् ॥ 7.75.1 ॥
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय सुव्रतम्।
बालस्य तु शरीरं तत्तैलद्रोण्यां निधापय ॥ 7.75.2 ॥
गन्धैश्च परमोदारैस्तैलैश्चापि सुगन्धिभिः।
यथा न क्षीयते बालस्तथा सौम्य विधीयताम् ॥ 7.75.3 ॥
यथा शरीरो बालस्य गुप्तः सन् शिष्टकर्मणः।
विपत्तिः परिभेदो वा न भवेच्च तथा कुरु ॥ 7.75.4 ॥
एवमादिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम्।
मनसा पुष्पकं दध्यावागच्छेति महायशाः ॥ 7.75.5 ॥
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः।
आजगाम मुहूर्तेन समीपे राघवस्य वै ॥ 7.75.6 ॥
सोऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप।
वश्यस्तव महाबाहो किङ्करः समुपस्थितः ॥ 7.75.7 ॥
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः।
अभिवाद्य महर्षींस्तान् विमानं सोऽध्यरोहत ॥ 7.75.8 ॥
धनुर्गृहीत्वा तूणी च खड्गं च रुचिरप्रभम्।
निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ ॥ 7.75.9 ॥
प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः।
उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ॥ 7.75.10 ॥
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम्।
पूर्वामपि दिशं सर्वामथोऽपश्यन्नराधिपः ॥ 7.75.11 ॥
प्रविशुद्धसमाचारामादर्शतलनिर्मलाम्।
पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः ॥ 7.75.12 ॥
दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः।
शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ॥ 7.75.13 ॥
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः।
ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ॥ 7.75.14 ॥
राघवस्तमुपागम्य तप्यन्तं तप उत्तमम्।
उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ॥ 7.75.15 ॥
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम।
कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ॥ 7.75.16 ॥
वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम्।
यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ॥ 7.75.17 ॥
ब्राह्मणो वाऽसि भद्रं ते क्षत्रियो वाऽसि दुर्जयः।
वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ॥ 7.75.18 ॥
इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै।
उवाच जातिं नृपपुङ्गवाय यत्कारणे चैव तपःप्रयत्नः ॥ 7.75.19 ॥