०७४ धर्म-लङ्घन-हेतुता

तथा तु करुणं तस्य द्विजस्य परिदेवनम्।
शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ॥ 7.74.1 ॥
स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत्।
वसिष्ठं वामदेवं च भ्रातरौ सह नैगमान् ॥ 7.74.2 ॥
ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः।
राजानं देवसङ्काशं वर्धस्वेति ततोऽब्रुवन् ॥ 7.74.3 ॥
कात्यायनोऽथ जाबालिर्गौतमो नारदस्तथा।
एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः ॥ 7.74.4 ॥
महर्षीन्समनुप्राप्तानभिवाद्य कृताञ्जलिः।
मन्त्रिणो नैगमांश्चैव यथार्हमनुकूलतः ॥ 7.74.5 ॥
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम्।
राघवः सर्वमाचष्टे द्विजोऽयमुपरोधते ॥ 7.74.6 ॥
तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः।
प्रत्युवाच शुभं वाक्यमृषीणां सन्निधौ नृपम् ॥ 7.74.7 ॥
शृणु राजन्यथाकाले प्राप्तो बालस्य सङ्क्षयः।
श्रुत्वा कर्तव्यतां राजन्कुरुष्वरघुनन्दन ॥ 7.74.8 ॥
पुरा कृतयुगे राजन्ब्राह्मणा वै तपस्विनः।
अब्राह्मणस्तदा राजन्न तपस्वी कथञ्चन ॥ 7.74.9 ॥
तस्मिन्युगे प्रज्वलिते ब्रह्मभूते त्वनावृते।
अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः ॥ 7.74.10 ॥
ततस्त्रेतायुगं नाम मानवानां वपुष्मताम्।
क्षत्रियास्तत्र जायन्ते पूर्णेन तपसाऽन्विताः ॥ 7.74.11 ॥
वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि।
मानवा ये महात्मानस्त्वत्र त्रेतायुगे युगे ॥ 7.74.12 ॥
ब्रह्मक्षत्रं च तत्सर्वं यत्पूर्वमपरं च यत्।
युगयोरुभयोरासीत्समवीर्यसमन्वितम् ॥ 7.74.13 ॥
अपश्यंस्तु न ते सर्वे विशेषमधिकं ततः।
स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सम्मतम् ॥ 7.74.14 ॥
तस्मिन्युगे प्रज्वलिते धर्मभूते ह्यनावृते।
अधर्मः पादमेकं तु पातयत्पृथिवीतले ॥ 7.74.15 ॥
अधर्मेण हि संयुक्तस्तेजो मन्दं भविष्यति ॥ 7.74.16 ॥
आमिषं यच्च पूर्वेषां राजसं च मलं भृशम्।
अनृतं नाम तद्भूतं पादेन पृथिवीतले ॥ 7.74.17 ॥
अनृतं पातयित्वा तु पादमेकमधर्मतः।
ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम् ॥ 7.74.18 ॥
पतिते त्वनृते तस्मिन्नधर्मे च महीतले।
शुभान्येवाचरँल्लोकः सत्यधर्मपरायणः ॥ 7.74.19 ॥
त्रेतायुगे च वर्तन्ते ब्राह्मणाः क्षत्रियाश्च ये।
तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः ॥ 7.74.20 ॥
स धर्मः परमस्तेषां वैश्यशूद्रं समागमत्।
पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः ॥ 7.74.21 ॥
एतस्मिन्नन्तरे तेषामधर्मे चानृते च ह।
ततः पूर्वे भृशं ह्रासमगमन्नृपसत्तम ॥ 7.74.22 ॥
ततः पादमधर्मस्स द्वितीयमवतारयत्।
ततो द्वापरसञ्ज्ञाऽस्य युगस्य समजायत ॥ 7.74.23 ॥
तस्मिन्द्वापरसञ्ज्ञे तु वर्तमाने युगक्षये।
अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ ॥ 7.74.24 ॥
तस्मिन्द्वापरसङ्ख्याते तपो वैश्यान्समाविशत्।
त्रिभ्यो युगेभ्यस्त्रीन्वर्णान्क्रमाद्वै तप आविशत् ॥ 7.74.25 ॥
न शुद्धो लभते धर्मं युगतस्तु नरर्षभ।
हीनवर्णो नृपश्रेष्ठ तप्यते सुमहत्तपः ॥ 7.74.26 ॥
भविष्यच्छूद्रयोन्यां वै तपश्चर्या कलौ युगे।
अधर्मः परमो राजन्द्वापरे शूद्रजन्मनः ॥ 7.74.27 ॥
स वै विषयपर्यन्ते तव राजन्महातपाः।
अद्य तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् ॥ 7.74.28 ॥
करोति चाश्रीमूलं तत्पुरे वा दुर्मतिर्नरः।
क्षिप्रं च नरकं याति स च राजा न संशयः ॥ 7.74.29 ॥
अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च।
षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ॥ 7.74.30 ॥
षङ्भागस्य न भोक्ताऽसौ रक्षते न प्रजाः कथम् ॥ 7.74.31 ॥
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम्।
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर ॥ 7.74.32 ॥
एवं चेद्धर्मवृद्धिश्च नृणां चायुर्विवर्धनम्।
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् ॥ 7.74.33 ॥