प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः।
प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥ 7.73.1 ॥
ततः कतिपयाहःसु वृद्धो जानपदो द्विजः।
मृतं बालमुपादाय राजद्वारमुपागमत् ॥ 7.73.2 ॥
रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः।
असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ॥ 7.73.3 ॥
किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम्।
यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ॥ 7.73.4 ॥
अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम्।
अकाले कालमापन्नं मम दुःखाय पुत्रक ॥ 7.73.5 ॥
अल्पैरहोभिर्निधनं गमिष्यामि न संशयः।
अहं च जननी चैव तव शोकेन पुत्रक ॥ 7.73.6 ॥
न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम्।
सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम् ॥ 7.73.7 ॥
केनाद्य दुष्कृतेनायं बाल एव ममात्मजः।
अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ॥ 7.73.8 ॥
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम्।
मृत्युरप्राप्तकालानां रामस्य विषये यथा ॥ 7.73.9 ॥
रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः।
यथा हि विषयस्थानां बालानां मृत्युरागतः ॥ 7.73.10 ॥
नह्यन्यविषयस्थानां बालानां मृत्युतो भयम्।
त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ॥ 7.73.11 ॥
राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत्।
ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ॥ 7.73.12 ॥
भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि।
उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल ॥ 7.73.13 ॥
इदं तु पतितं तस्मात्तव राम वशे स्थिताः।
कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम् ॥ 7.73.14 ॥
सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम्।
रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ॥ 7.73.15 ॥
राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः।
असद्वृत्ते तु नृपतावकाले म्रियते जनः ॥ 7.73.16 ॥
यद्वा पुरेष्वयुक्तानि जना जनपदेषु च।
कुर्वते न च रक्षाऽस्ति तदा कालकृतं भयम् ॥ 7.73.17 ॥
सुव्यक्तं राजदोषो हि भविष्यति न संशयः।
पुरे जनपदे चापि ततो बालवधो ह्ययम् ॥ 7.73.18 ॥
एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः।
राजानं दुःखसन्तप्तः सुतं तमुपगूहते ॥ 7.73.19 ॥