तं शयानं नरव्याघ्रं निद्रा नाभ्यागमत्तदा।
चिन्तयन्तमनेकार्थं रामगीतमनुत्तमम् ॥ 7.72.1 ॥
तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम्।
श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ॥ 7.72.2 ॥
तस्यां निशायां व्युष्टायां कृत्वा पौर्वाह्णिकं क्रमम्।
उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ॥ 7.72.3 ॥
भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम्।
त्वयाऽनुज्ञातुमिच्छामि सहैभिः संशितव्रतैः ॥ 7.72.4 ॥
इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम्।
वाल्मीकिः सम्परिष्वज्य विससर्ज च राघवम् ॥ 7.72.5 ॥
सोऽभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम्।
अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः ॥ 7.72.6 ॥
स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः।
प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः ॥ 7.72.7 ॥
स रामं मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम्।
पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ॥ 7.72.8 ॥
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा।
उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ॥ 7.72.9 ॥
यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम्।
हतः स लवणः पापः पुरी चास्य निवेशिता ॥ 7.72.10 ॥
द्वादशैते गता वर्षास्त्वां विना रघुनन्दन।
नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ॥ 7.72.11 ॥
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम।
मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ॥ 7.72.12 ॥
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत्।
मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ॥ 7.72.13 ॥
नावसीदन्ति राजानो विप्रवासेषु राघव।
प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ॥ 7.72.14 ॥
काले काले तु मां वीर अयोध्यामवलोकितुम्।
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥ 7.72.15 ॥
ममापि त्वं सुदयितः प्राणैरपि न संशयः।
अवश्यं करणीयं च राज्यस्य परिपालनम् ॥ 7.72.16 ॥
तस्मात्त्वं वस काकुत्स्थ सप्तरात्रमिहावस।
ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥ 7.72.17 ॥
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम्।
शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ॥ 7.72.18 ॥
सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया।
उष्य तत्र महेष्वासो गमनायोपचक्रमे ॥ 7.72.19 ॥
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम्।
भरतं लक्ष्मणं चैव महारथमुपारुहत् ॥ 7.72.20 ॥
दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना।
भरतेन च शत्रुघ्नो जगामाशु पुरं ततः ॥ 7.72.21 ॥