०७१ रामायण-श्रवणम्

ततो द्वादशमे वर्षे शत्रघ्नो रामपालिताम्।
अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥ 7.71.1 ॥
ततो मन्त्रिपुरोगांश्च बलमुख्यान्निवर्त्य च।
जगाम हयमुख्यैश्च रथानां च शतेन सः ॥ 7.71.2 ॥
स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः।
वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ॥ 7.71.3 ॥
सोऽभिवाद्य ततः पादौ वाल्मीकेः पुरुषर्षभः।
पाद्यमर्ध्यं तथातिथ्यं जग्राह मुनिहस्ततः ॥ 7.71.4 ॥
बहुरूपाः सुमधुराः कथास्तत्र सहस्रशः।
कथयामास स मुनिः शत्रुघ्नाय महात्मने ॥ 7.71.5 ॥
उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम्।
सुदुष्करं कृतं कर्म लवणं निघ्नता त्वया ॥ 7.71.6 ॥
बहवः पार्थिवाः सौम्य हताः सबलवाहनाः।
लवणेन महाबाहो युध्यमाना महाबलाः ॥ 7.71.7 ॥
स त्वया निहतः पापो लीलया पुरुषर्षभ।
जगतश्च भयं तत्र प्रशान्तं तव तेजसा ॥ 7.71.8 ॥
रावणस्य वधो घोरो यत्नेन महता कृतः।
इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ॥ 7.71.9 ॥
प्रीतिश्चास्मिन्परा जाता देवानां लवणे हते।
भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥ 7.71.10 ॥
तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ।
सभायां वासवस्याथ उपविष्टेन राघव ॥ 7.71.11 ॥
ममापि परमा प्रीतिर्हृदि शत्रुघ्न वर्तते।
उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ॥ 7.71.12 ॥
इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः।
आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ॥ 7.71.13 ॥
स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम्।
शुश्राव रामचरितं तस्मिन्काले यथाकृमम् ॥ 7.71.14 ॥
संस्कृतं लक्षणोपेतं समतालसमन्वितम्।
शुश्राव रामचरितं तस्मिन्काले पुरा कृतम् ॥ 7.71.15 ॥
तान्यक्षराणि सत्यानि यथावृत्तानि पूर्वशः।
श्रुत्वा पुरुषशार्दूलो विसञ्ज्ञो बाष्पलोचनः ॥ 7.71.16 ॥
स मुहूर्तमिवासञ्ज्ञो विनिःश्वस्य मुहुर्मुहुः।
तस्मिन् गीते यथावृत्तं वर्तमानमिवाशृणोत् ॥ 7.71.17 ॥
पदानुगाश्च ये राज्ञस्तां श्रुत्वा गीतिसम्पदम्।
अवाङ्मुखाश्च दीनाश्च ह्याश्चर्यमिति चाब्रुवन् ॥ 7.71.18 ॥
परस्परं च ये तत्र सैनिकाः सम्बभाषिरे।
किमिदं क्व च वर्तामः किमेतत्स्वप्नदर्शनम् ॥ 7.71.19 ॥
अर्थो यो नः पुरा दृष्टस्तमाश्रमपदे पुनः।
शृणुमः किमिदं स्वप्नो गीतबन्धं श्रियो भवेत् ॥ 7.71.20 ॥
विस्मयं ते परं गत्वा शत्रुघ्नमिदमब्रुवन्।
साधु पृच्छ नरश्रेष्ठ वाल्मीकिं मुनिपुङ्गवम् ॥ 7.71.21 ॥
शत्रुघ्नस्त्वब्रवीत्सर्वान्कौतूहलसमन्वितान्।
सैनिका न क्षमोऽस्माकं परिप्रष्टुमिहेदृशः ॥ 7.71.22 ॥
आश्चर्याणि बहूनीह भवन्त्यस्याश्रमे मुनेः।
न तु कौतूहलाद्युक्तमन्वेष्टुं तं महामुनिम् ॥ 7.71.23 ॥
एवं तद्वाक्यमुक्त्वा च सैनिकान्रघुनन्दनः।
अभिवाद्य महर्षिं तं स्वं निवेशं ययौ तदा ॥ 7.71.24 ॥