हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः।
ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ॥ 7.70.1 ॥
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः।
हतः पुरुषशार्दूल वरं वरय सुव्रत ॥ 7.70.2 ॥
वरदास्तु महाबाहो सर्व एव समागताः।
विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ॥ 7.70.3 ॥
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः।
प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ॥ 7.70.4 ॥
इयं मधुपुरी रस्या मधुरा देवनिर्मिता।
निवेशं प्राप्नुयाच्छीघ्रमेष मेऽस्तु वरः परः ॥ 7.70.5 ॥
तं देवाः प्रीतमनसो बाढमित्येव राघवम्।
भविष्यति पुरी रम्या शूरसेना न संशयः ॥ 7.70.6 ॥
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा।
शत्रुघ्नोऽपि महातेजास्तां सेनां समुपानयत् ॥ 7.70.7 ॥
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम्।
निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ॥ 7.70.8 ॥
सा पुरा दिव्यसङ्काशा वर्षे द्वादशमे शुभे।
निविष्टा शूरसेनानां विषयश्चाकुतोभयः ॥ 7.70.9 ॥
क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः।
अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ॥ 7.70.10 ॥
शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः।
चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ॥ 7.70.11 ॥
यच्च तेन पुरा शुभ्रं लवणेन कृतं महत्।
तच्छोभयति शत्रुघ्नो नानावर्णोपशोभिताम् ॥ 7.70.12 ॥
आरामैश्च विहारैश्च शोभमानं समन्ततः।
शोभितां शोभनीयैश्च तथाऽन्यैर्दैवमानुषैः ॥ 7.70.13 ॥
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम्।
नानादेशागतैश्चापि वणिग्भिरुपशोभिताम् ॥ 7.70.14 ॥
तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः।
निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ॥ 7.70.15 ॥
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम्।
रामपादौ निरीक्षेऽहं वर्षे द्वादश आगते ॥ 7.70.16 ॥
ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम्।
नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ॥ 7.70.17 ॥