तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः।
क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ 7.69.1 ॥
पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च।
लवणो रघुशार्दूलमाह्वयामास चासकृत् ॥ 7.69.2 ॥
तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम्।
शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ॥ 7.69.3 ॥
न शत्रुघ्नस्तथा जातो यथाऽन्ये निर्जितास्त्वया।
तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ॥ 7.69.4 ॥
ऋषयोऽप्यद्य पापात्मन्मया त्वां निहतं रणे।
पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ॥ 7.69.5 ॥
त्वयि मद्बाणनिर्दग्धे पतितेऽद्य निशाचर।
पुरे जनपदे चापि क्षेममेव भविष्यति ॥ 7.69.6 ॥
अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः।
प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥ 7.69.7 ॥
एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः।
शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ॥ 7.69.8 ॥
तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु।
पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्बली ॥ 7.69.9 ॥
शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून्।
त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ॥ 7.69.10 ॥
ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि।
शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ॥ 7.69.11 ॥
ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान्।
शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ॥ 7.69.12 ॥
तस्मिन्निपतिते वीरे हाहाकारो महानभूत्।
ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ॥ 7.69.13 ॥
तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम्।
रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥ 7.69.14 ॥
नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम्।
ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ॥ 7.69.15 ॥
मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः।
शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ॥ 7.69.16 ॥
ततो दिव्यममोघं तं जग्राह शरमुत्तमम्।
ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ॥ 7.69.17 ॥
वज्राननं वज्रवेगं मेरुमन्दरसन्निभम्।
नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ॥ 7.69.18 ॥
असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम्।
दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ॥ 7.69.19 ॥
तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते।
दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ॥ 7.69.20 ॥
सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम्।
जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ॥ 7.69.21 ॥
उवाच देवदेवेशं वरदं प्रपितामहम्।
देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ॥ 7.69.22 ॥
नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह।
देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ॥ 7.69.23 ॥
भयकारणमाचष्ट लोकानामभयङ्करः।
उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ॥ 7.69.24 ॥
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः।
तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः ॥ 7.69.25 ॥
एष पूर्वस्य देवस्य लोककर्तुः सनातनः।
शरस्तेजोमयो वत्सा येन वै भयमागतम् ॥ 7.69.26 ॥
एष वै कैटभस्यार्थे मधुनश्च महाशरः।
सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ॥ 7.69.27 ॥
एक एव प्रजानाति विष्णुस्तेजोमयं शरम्।
एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ॥ 7.69.28 ॥
इतो गच्छत पश्यध्वं वध्यमानं महात्मना।
रामानुजेन वीरेण लवणं राक्षसोत्तमम् ॥ 7.69.29 ॥
तस्य ते देवदेवस्य निशम्य वचनं सुराः।
आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ॥ 7.69.30 ॥
तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम्।
ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ॥ 7.69.31 ॥
अकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः।
सिंहनादं भृशं कृत्वा ददर्श लक्षणं पुनः ॥ 7.69.32 ॥
आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना।
लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ॥ 7.69.33 ॥
आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः।
तं मुमोच महाबाणं लवणस्य महोरसि ॥ 7.69.34 ॥
उरस्तस्य विदार्याशु प्रविवेश रसातलम् ॥ 7.69.35 ॥
गत्वा रसातलं दिव्यः शरो विबुधपूजितः।
पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ॥ 7.69.36 ॥
शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः।
पपात सहसा भूमौ वज्राहत इवाचलः ॥ 7.69.37 ॥
तच्च शूलं महत्तेन हते लवणराक्षसे।
पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ॥ 7.69.38 ॥
एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः।
विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ॥ 7.69.39 ॥
ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः।
दिष्ट्या जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः ॥ 7.69.40 ॥