कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम्।
व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ॥ 7.68.1 ॥
ततः प्रभाते विमले तस्मिन्काले स राक्षसः।
निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ॥ 7.68.2 ॥
एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम्।
तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥ 7.68.3 ॥
ततोऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः।
आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ॥ 7.68.4 ॥
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम्।
तमुवाच ततो रक्षः किमनेन करिष्यसि ॥ 7.68.5 ॥
ईदृशानां सहस्राणि सायुधानां नराधम।
भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ॥ 7.68.6 ॥
आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम।
स्वयं प्रविष्टोऽद्य मुखं कथमासाद्य दुर्मते ॥ 7.68.7 ॥
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः।
शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ॥ 7.68.8 ॥
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः।
तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥ 7.68.9 ॥
उवाच च सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम्।
योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥ 7.68.10 ॥
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः।
शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः ॥ 7.68.11 ॥
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम्।
शत्रुस्त्वं सर्वभूतानां न मे जीवन्गमिष्यसि ॥ 7.68.12 ॥
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव।
प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोऽसि दुर्मते ॥ 7.68.13 ॥
मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः।
हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ॥ 7.68.14 ॥
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम्।
अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ॥ 7.68.15 ॥
निहताश्च हि मे सर्वे परिभूतास्तृणं यथा।
भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ॥ 7.68.16 ॥
तिष्ठं त्वं च मुहूर्तं तु यावदायुधमानये।
ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ॥ 7.68.17 ॥
तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि।
शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ॥ 7.68.18 ॥
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ।
स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ॥ 7.68.19 ॥
तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि।
यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ॥ 7.68.20 ॥