०६७ मान्धातृ-नाश-कथा

अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम्।
पप्रच्छ च्यवनं विप्रं लवणस्य यथा बलम् ॥ 7.67.1 ॥
शूलस्य च बलं ब्रह्मन्के च पूर्वं विनाशिताः।
अनेन शूलमुख्येन द्वन्द्वयुद्धमुपागताः ॥ 7.67.2 ॥
तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः।
प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ॥ 7.67.3 ॥
असङ्ख्येयानि कर्माणि यान्यस्य रघुनन्दन।
इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणष्व मे ॥ 7.67.4 ॥
अयोध्यायां पुरा राजा युवनाश्वसुतो बली।
मान्धातेति स विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ 7.67.5 ॥
स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः।
सुरलोकमितो जेतुमुद्योगमकरोन्नृपः ॥ 7.67.6 ॥
इन्द्रस्य च भयं तीव्रं सुराणां च महात्मनाम्।
मान्धातरि कृतोद्योगे देवलोकजिगीषया ॥ 7.67.7 ॥
अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः।
वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ॥ 7.67.8 ॥
तस्य पापमभिप्रायं विदित्वा पाकशासनः।
सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ॥ 7.67.9 ॥
राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ।
अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ॥ 7.67.10 ॥
यदि वीर समग्रा ते मेदिनी निखिला वशे।
देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ॥ 7.67.11 ॥
इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत्।
क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ॥ 7.67.12 ॥
तमुवाच सहस्राक्षो लवणो नाम राक्षसः।
मधुपुत्रो मधुवने न तेऽऽज्ञां कुरुतेऽनघ ॥ 7.67.13 ॥
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम्।
व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ॥ 7.67.14 ॥
आमन्त्र्य तु सहस्राक्षं ह्रिया किञ्चिदवाङ्मुखः।
पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ॥ 7.67.15 ॥
स कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनः।
आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ॥ 7.67.16 ॥
स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः।
दूतं सम्प्रेषयामास सकाशं लवणस्य हि ॥ 7.67.17 ॥
स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम्।
वदन्तमेवं तं दूतं भक्षयामास राक्षसः ॥ 7.67.18 ॥
चिरायमाणे दूते तु राजा क्रोधसमन्वितः।
अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ॥ 7.67.19 ॥
ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना।
वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ॥ 7.67.20 ॥
तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम्।
भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ॥ 7.67.21 ॥
एवं स राजा सुमहान्हतः सबलवाहनः।
शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ॥ 7.67.22 ॥
श्वः प्रभाते तु लवणं वधिष्यसि न संशयः।
अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ॥ 7.67.23 ॥
लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया।
एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ॥ 7.67.24 ॥
शूलस्य च बलं घोरमप्रमेयं नरर्षभ।
विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ॥ 7.67.25 ॥
त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे।
शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ॥ 7.67.26 ॥