यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत्।
तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ॥ 7.66.1 ॥
ततोऽर्धरात्रसमये बालका मुनिदारकाः।
वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ॥ 7.66.2 ॥
भगवन्रामपत्नी सा प्रसूता दारकद्वयम्।
ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ॥ 7.66.3 ॥
तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत्।
बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ॥ 7.66.4 ॥
जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ।
भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ॥ 7.66.5 ॥
कुशमुष्टिमुपादाय लवं चैव तु स द्विजः।
वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ॥ 7.66.6 ॥
यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः।
निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ॥ 7.66.7 ॥
यश्चावरो भवेत्ताभ्यां लवेन स समाहितः।
निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ॥ 7.66.8 ॥
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ।
मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ॥ 7.66.9 ॥
तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः।
अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ॥ 7.66.10 ॥
तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च।
सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ॥ 7.66.11 ॥
अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम्।
पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ॥ 7.66.12 ॥
तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः।
व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः ॥ 7.66.13 ॥
प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम्।
मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ॥ 7.66.14 ॥
स गत्वा यमुनातीरं सप्तरात्रोषितः पथि।
ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ॥ 7.66.15 ॥
स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः।
कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ॥ 7.66.16 ॥
स काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम्।
कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः ॥ 7.66.17 ॥