०६५ वाल्मीकि-दर्शनम्

प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि।
एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ॥ 7.65.1 ॥
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः।
वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ॥ 7.65.2 ॥
सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम्।
कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥ 7.65.3 ॥
भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः।
श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ॥ 7.65.4 ॥
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः।
प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥ 7.65.5 ॥
स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि।
आसनं पाद्यमर्ध्यं च निर्विशङ्कः प्रतीच्छ मे ॥ 7.65.6 ॥
प्रतिगृह्य तदा पूजां फलमूलं च भोजनम्।
भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥ 7.65.7 ॥
स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह।
इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ॥ 7.65.8 ॥
तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत्।
शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ 7.65.9 ॥
युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः।
पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ॥ 7.65.10 ॥
स बाल एव सौदासो मृगयामुपचक्रमे।
चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ॥ 7.65.11 ॥
शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः।
भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ॥ 7.65.12 ॥
स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम्।
क्रोधेन महताऽऽविष्टो जघानैकं महेषुणा ॥ 7.65.13 ॥
विनिपात्य तमेकं तु सौदासः पुरुषर्षभः।
विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत ॥ 7.65.14 ॥
निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः।
सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् ॥ 7.65.15 ॥
यस्मादनपराधं त्वं सहायं मम जघ्निवान्।
तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ 7.65.16 ॥
एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत।
कालपर्याययोगेन राजा मित्रसहोऽभवत् ॥ 7.65.17 ॥
राजापि यजते यज्ञमस्याश्रमसमीपतः।
अश्वमेधं महायज्ञं तं वसिष्ठोऽभ्यपालयत् ॥ 7.65.18 ॥
तत्र यज्ञो महानासीद्बहुवर्षगणायुतः।
समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् ॥ 7.65.19 ॥
अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन्।
वसिष्ठरूपी राजानमिति होवाच राक्षसः ॥ 7.65.20 ॥
अस्य यज्ञस्य जातोऽन्तः सामिषं भोजनं मम।
दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ॥ 7.65.21 ॥
तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा।
भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ॥ 7.65.22 ॥
हविष्यं सामिषं स्वादु यथा भवति भोजनम्।
तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ॥ 7.65.23 ॥
शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः।
स राक्षसः पुनस्तत्र सूदवेषमथाकरोत् ॥ 7.65.24 ॥
स मानुषमथो मांसं पार्थिवाय न्यवेदयत्।
इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥ 7.65.25 ॥
स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत्।
मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् ॥ 7.65.26 ॥
ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम्।
क्रोधेन महताऽऽविष्टो व्याहर्तुमुपचक्रमे ॥ 7.65.27 ॥
यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि।
तस्माद्भोजनमेतत्ते भविष्यति न संशयः ॥ 7.65.28 ॥
ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना।
वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ॥ 7.65.29 ॥
राजन्प्रभुर्यतोऽस्माकं वसिष्ठो भगवानृषिः।
प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ॥ 7.65.30 ॥
ततः क्रोधमयं तोयं तेजोबलसमन्वितम्।
व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ॥ 7.65.31 ॥
तदाप्रभृति राजाऽसौ सौदासः सुमहायशाः।
कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ॥ 7.65.32 ॥
स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः।
पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ 7.65.33 ॥
तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत्।
पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ॥ 7.65.34 ॥
मया रोषपरीतेन यदिदं व्याहृतं वचः।
नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ॥ 7.65.35 ॥
कालो द्वादश वर्षाणि शापस्यान्तो भविष्यति।
मत्प्रासादाच्च राजेन्द्र व्यतीतं न स्मरिष्यसि ॥ 7.65.36 ॥
एवं स राजा तं शापमुपभुज्यारिसूदनः।
प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ॥ 7.65.37 ॥
तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम्।
आश्रमस्य समीपेऽस्य यन्मां पृच्छसि राघव ॥ 7.65.38 ॥
तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम्।
विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ 7.65.39 ॥