एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः।
पुनरेवापरं वाक्यमुवाच रघुनन्दनः ॥ 7.64.1 ॥
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ।
रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ॥ 7.64.2 ॥
अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः।
अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ॥ 7.64.3 ॥
हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ।
आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ॥ 7.64.4 ॥
बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम्।
सम्भाषासम्प्रदानेन रञ्जयस्व नगेत्तम ॥ 7.64.5 ॥
न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः।
सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव ॥ 7.64.6 ॥
ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम्।
एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ॥ 7.64.7 ॥
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम्।
लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ॥ 7.64.8 ॥
न तस्य मूत्युरन्योऽस्ति कश्चिद्धि पुरुषर्षभ।
दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि ॥ 7.64.9 ॥
स हि ग्रीष्मोऽपयाते तु वर्षारात्र उपागते।
हन्यास्त्वं लवणं सौम्य सहि कालोऽस्य दुर्मतेः ॥ 7.64.10 ॥
महर्षींस्तु पुरत्कृत्य प्रयान्तु तव सौनिकाः।
यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ॥ 7.64.11 ॥
तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः।
अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ॥ 7.64.12 ॥
एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान्।
सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ॥ 7.64.13 ॥
एते वो गणिता वासा यत्र तत्र निवत्स्यथ।
स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ॥ 7.64.14 ॥
तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम्।
कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ॥ 7.64.15 ॥
रामं प्रदक्षिणीकृत्य शिरसाऽभिप्रणम्य च।
रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ॥ 7.64.16 ॥
पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान्।
प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ॥ 7.64.17 ॥
प्रस्थाप्य सेनामथ सोऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसङ्कुलाम्।
उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ॥ 7.64.18 ॥