०६३ लवण-राज्याभिषेकादि

एवमुक्तस्तु रामेण परां व्रीडामुपागमत्।
शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह ॥ 7.63.1 ॥
अधर्मं विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर।
कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ॥ 7.63.2 ॥
अवश्यं करणीयं च शासनं पुरुषर्षभ।
तव चैव महाभाग शासनं दुरतिक्रमम् ॥ 7.63.3 ॥
त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम्।
नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ॥ 7.63.4 ॥
व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे।
तस्यैवं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ ॥ 7.63.5 ॥
उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः।
अधर्मसहितं चैव परलोकविवर्जितम् ॥ 7.63.6 ॥
सोऽहं द्वितीयं काकुत्स्थ न वक्ष्यामि तवोत्तरम्।
मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ॥ 7.63.7 ॥
कामकारो ह्यहं राजंस्तवास्मि पुरुषर्षभ।
अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ॥ 7.63.8 ॥
एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना।
उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ॥ 7.63.9 ॥
सम्भारानभिषेकस्य आनयध्वं समाहिताः।
अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ॥ 7.63.10 ॥
पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा।
मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ॥ 7.63.11 ॥
अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम्।
प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा ॥ 7.63.12 ॥
तथोऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः।
सम्प्रहर्षकरः श्रीमान्राघवस्य पुरस्य च ॥ 7.63.13 ॥
अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसन्निभः।
अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः ॥ 7.63.14 ॥
अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा।
पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः ॥ 7.63.15 ॥
कौसल्या च सुमित्रा च मङ्गलं केकयी तथा।
चक्रुस्ता राजभवने याश्चान्या राजयोषितः ॥ 7.63.16 ॥
ऋषयश्च महात्मानो यमुनातीरवासिनः।
हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ॥ 7.63.17 ॥
ततोऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः।
उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ॥ 7.63.18 ॥
अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः।
अनेन लवणं सौम्य हन्ताऽसि रघुनन्दन ॥ 7.63.19 ॥
सृष्टः शरोऽयं काकुत्स्थ यदा शेते महार्णवे ॥ 7.63.20 ॥
स्वयम्भूरजितो देवो यन्नापश्यन्सुरासुराः।
अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ॥ 7.63.21 ॥
मधुकैटभयोर्वीर विघाते वर्तमानयोः।
स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ॥ 7.63.22 ॥
तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा।
अनेन शरमुख्येन ततो लोकांश्चकार सः ॥ 7.63.23 ॥
नायं मया शरः पूर्वं रावणस्य वधार्थिना।
मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ॥ 7.63.24 ॥
यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना।
दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ॥ 7.63.25 ॥
स तं निक्षिप्य भवने पूज्यमान पुनः पुनः।
दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ॥ 7.63.26 ॥
यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत्।
तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि ॥ 7.63.27 ॥
स त्वं पुरुषशार्दूल तमायुधविनाकृतम्।
अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ॥ 7.63.28 ॥
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ।
आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ॥ 7.63.29 ॥
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति।
यदि त्वेवं कृते वीर विनाशमुपयास्यति ॥ 7.63.30 ॥
एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः।
श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ॥ 7.63.31 ॥