०६२ शत्रुघ्न-नियोगः

तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलिः।
किमाहारः किमाचारो लवणः क्व च वर्तते ॥ 7.62.1 ॥
राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते।
ततो निवेदयामासुर्लवणो ववृधे यथा ॥ 7.62.2 ॥
आहारः सर्वसत्त्वानि विशेषेण च तापसाः।
आचारो रौद्रता नित्यं वासो मधुवने तथा ॥ 7.62.3 ॥
हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान्।
मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ॥ 7.62.4 ॥
ततोऽन्तराणि सत्त्वानि खादते स महाबलः।
संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ॥ 7.62.5 ॥
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन्।
घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ॥ 7.62.6 ॥
प्रतिज्ञाय तथा तेषां मुनीनामुग्रतेजसाम्।
स भ्रातॄन्सहितान्सर्वानुवाच रघुनन्दनः ॥ 7.62.7 ॥
को हन्ता लवणं वीरः कस्यांशः स विधीयताम्।
भरतस्य महाबाहोः शत्रुघ्नस्य च धीमतः ॥ 7.62.8 ॥
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत्।
अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥ 7.62.9 ॥
भरतस्य वचः श्रुत्वा धैर्यशौर्यसमन्वितम्।
लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥ 7.62.10 ॥
शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम्।
कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः ॥ 7.62.11 ॥
आर्येण हि पुरा शून्या त्वयोध्या परिपालिता।
सन्तापं हृदये कृत्वा आर्यस्यागमनं प्रति ॥ 7.62.12 ॥
दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव।
शयानो दुःखशय्यासु नन्दिग्रामेऽवसत्पुरा ॥ 7.62.13 ॥
अनुभूयेदृशं दुःखमेष राघवनन्दनः।
प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ॥ 7.62.14 ॥
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत्।
एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ॥ 7.62.15 ॥
राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे।
निवेशय महाबाहो भरतं यद्यवेक्षसे ॥ 7.62.16 ॥
शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ॥ 7.62.17 ॥
यो हि शत्रुं समुत्पाट्य पार्थिवस्य पुनः क्षये।
न विधत्ते नृपं तत्र नरकं स हि गच्छति ॥ 7.62.18 ॥
स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम्।
राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ॥ 7.62.19 ॥
उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम।
बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः ॥ 7.62.20 ॥
अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम्।
वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् ॥ 7.62.21 ॥