एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत्।
किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ॥ 7.61.1 ॥
तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत्।
भयानां शृणु यन्मूलं देशस्य च नरेश्वर ॥ 7.61.2 ॥
पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः।
लोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः ॥ 7.61.3 ॥
ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः।
सुरैश्च परमोदारैः प्रीतिस्तस्यातुलाऽभवत् ॥ 7.61.4 ॥
स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः।
बहुवर्षसहस्राणि रुद्रप्रीत्याऽकरोत्तपः ॥ 7.61.5 ॥
रुद्रः प्रीतोऽभवत्तस्मै वरं दातुं ययौ च सः।
बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥ 7.61.6 ॥
शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम्।
ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥ 7.61.7 ॥
त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः।
प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥ 7.61.8 ॥
यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर।
तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ॥ 7.61.9 ॥
यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः।
तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥ 7.61.10 ॥
एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः।
प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥ 7.61.11 ॥
भगवन्मम वंशस्य शूलमेतदनुत्तमम्।
भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥ 7.61.12 ॥
तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः।
प्रत्युवाच महातेजा नैतदेवं भविष्यति ॥ 7.61.13 ॥
मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा।
भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ॥ 7.61.14 ॥
यावत्करस्थः शूलोऽयं भविष्यति सुतस्य ते।
अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥ 7.61.15 ॥
एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम्।
भवनं सोऽसुरश्रेष्ठः कारयामास सुप्रभम् ॥ 7.61.16 ॥
तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या।
विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ॥ 7.61.17 ॥
तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः।
बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ॥ 7.61.18 ॥
तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः।
मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ॥ 7.61.19 ॥
स विहाय त्विमं लोकं प्रविष्टो वरुणालयम्।
शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥ 7.61.20 ॥
स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा।
सन्तापयति लोकांस्त्रीन्विशेषेण च तापसान् ॥ 7.61.21 ॥
एवम्प्रभावो लवणः शूलं चैव तथाविधम्।
श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ॥ 7.61.22 ॥
बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा।
अभयं याचिता वीर त्रातारं न च विद्महे ॥ 7.61.23 ॥
त्रातारं विद्महे तात नान्यं भुवि नराधिपम्।
तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ॥ 7.61.24 ॥
इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत्।
विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ॥ 7.61.25 ॥