०६० च्यवनादि-प्राप्तिः

तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा।
वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ॥ 7.60.1 ॥
ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः।
अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ॥ 7.60.2 ॥
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत्।
एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ॥ 7.60.3 ॥
दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः।
प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ॥ 7.60.4 ॥
तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित्।
प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ॥ 7.60.5 ॥
राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः।
प्रवेशयामास तदा तापसान्सुदुरासदान् ॥ 7.60.6 ॥
शतं समधिकं तत्र दीप्यमानं स्वतेजसा।
प्रविष्टं राजभवनं तापसानां महात्मनाम् ॥ 7.60.7 ॥
ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः।
गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ॥ 7.60.8 ॥
प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः।
तीर्थोदकानि सर्वाणि फलानि विविधानि च ॥ 7.60.9 ॥
उवाच च महाबाहुः सर्वानेव महामुनीन्।
इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ॥ 7.60.10 ॥
रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः।
बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ॥ 7.60.11 ॥
उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः।
प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ॥ 7.60.12 ॥
किमागमनकार्यं वः किं करोमि समाहितः।
आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम् ॥ 7.60.13 ॥
इदं राज्यं च सकलं जीवितं च हृदि स्थितम्।
सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः ॥ 7.60.14 ॥
तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत्।
ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ॥ 7.60.15 ॥
ऊचुश्च ते महात्मानो हर्षेण महता वृताः।
उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ॥ 7.60.16 ॥
बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः।
कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ॥ 7.60.17 ॥
त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम्।
ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्€त्रातुमृषींस्त्वमर्हसि ॥ 7.60.18 ॥