०५९ जरा-यौवनानुभूती

श्रुत्वा तूशनसं क्रुद्धं तदाऽऽर्तो नहुषात्मजः।
जरां परमिकां प्राप्य यदुं वचनमब्रवीत् ॥ 7.59.1 ॥
यदो त्वमसि धर्मज्ञो मदर्थं प्रतिगृह्यताम्।
जरां परमिकां पुत्र भोगै रंस्ये महायशः ॥ 7.59.2 ॥
न तावत्कृतकृत्योऽस्मि विषयेषु नरर्षभ।
अनुभूय तदा कामं ततः प्राप्स्याम्यहं जराम् ॥ 7.59.3 ॥
यदुस्तद्वचनं श्रुत्वा प्रत्युवाच नरर्षभम्।
पुत्रस्ते दयितः पूरुः प्रतिगृह्णातु वै जराम् ॥ 7.59.4 ॥
बहिष्कृतोऽहमर्थेषु सन्निकर्षाच्च पार्थिव।
प्रतिगृह्णातु वै राजन् क सहाश्नाति भोजनम् ॥ 7.59.5 ॥
तस्य तद्वचनं श्रुत्वा राजा पूरुमथाब्रवीत्।
इयं जरा महाबाहो मदर्थं प्रतिगृह्यताम् ॥ 7.59.6 ॥
नाहुषेणैवमुक्तस्तु पूरुः प्राञ्जलिरब्रवीत्।
धन्योऽस्म्यनुगृहीतोऽस्मि शासनेऽस्मि तव स्थितः ॥ 7.59.7 ॥
पूरोर्वचनमाज्ञाय नाहुषः परया मुदा।
प्रहर्षमतुलं लेभे जरां सङ्क्रामयच्च ताम् ॥ 7.59.8 ॥
ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः।
बहुवर्षसहस्राणि पालयामास मेदिनीम् ॥ 7.59.9 ॥
अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत्।
आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ॥ 7.59.10 ॥
न्यासभूता मया पुत्र त्वयि सङ्क्रामिता जरा।
तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ॥ 7.59.11 ॥
प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात्।
त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ॥ 7.59.12 ॥
एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः।
देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ॥ 7.59.13 ॥
राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः।
प्रतिहंसि ममाज्ञां यत् प्रजार्थे विफलो भव ॥ 7.59.14 ॥
पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे।
राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ॥ 7.59.15 ॥
न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः।
वंशोऽपि भवतस्तुल्यो दुर्विनीतो भविष्यति ॥ 7.59.16 ॥
तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम्।
अभिषेकेण सम्पूज्य आश्रमं प्रविवेश ह ॥ 7.59.17 ॥
ततः कालेन महता दिष्टान्तमुपजग्मिवान्।
त्रिदिवं सङ्गतो राजा ययातिर्नहुषात्मजः ॥ 7.59.18 ॥
पूरुश्चकार तद्राज्यं धर्मेण महता वृतः।
प्रतिष्ठाने पुरवरे काशिराज्ये महायशाः ॥ 7.59.19 ॥
यदुस्तु जनयामास यातुधानान्सहस्रशः।
पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृतः ॥ 7.59.20 ॥
एष तूशनसा मुक्तः शापोत्सर्गो ययातिना।
धारितः क्षत्रधर्मेण यन्निमिश्च न चक्षमे ॥ 7.59.21 ॥
एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम्।
अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे ॥ 7.59.22 ॥
इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम्।
अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ॥ 7.59.23 ॥