एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा।
प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ॥ 7.58.1 ॥
महदद्भुतमाश्चर्यं विदेहस्य पुरातनम्।
निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह ॥ 7.58.2 ॥
निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः।
न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ॥ 7.58.3 ॥
एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः।
उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ॥ 7.58.4 ॥
रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम्।
न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ॥ 7.58.5 ॥
सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना।
सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः ॥ 7.58.6 ॥
नहुषस्य सुतो राजा ययातिः पौरवर्धनः।
तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ॥ 7.58.7 ॥
एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता।
शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ॥ 7.58.8 ॥
अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ।
न तु सा दयिता राज्ञो देवयानी सुमध्यमा ॥ 7.58.9 ॥
तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ।
शर्मिष्ठाऽजनयत्पूरुं देवयानी यदुं तदा ॥ 7.58.10 ॥
पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च।
ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ॥ 7.58.11 ॥
भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः।
सहसे हृद्गतं दुःखमवमानं च दुःसहम् ॥ 7.58.12 ॥
आवां च सहितौ देवि प्रविशाव हुताशनम्।
राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ॥ 7.58.13 ॥
यदि वा सहनीयं ते मामनुज्ञातुमर्हसि।
क्षम त्वं न क्षमिष्येऽहं मरिष्यामि न संशयः ॥ 7.58.14 ॥
पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः।
देवयानी तु सङ्क्रुद्धा सस्मार पितरं तदा ॥ 7.58.15 ॥
इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा।
आगतस्त्वरितं तत्र देवयानी तु यत्र सा ॥ 7.58.16 ॥
दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम्।
पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् ॥ 7.58.17 ॥
पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम्।
देवयानी तु सङ्क्रुद्धा पितरं वाक्यमब्रवीत् ॥ 7.58.18 ॥
अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम।
भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ॥ 7.58.19 ॥
न मां त्वमवजानीषे दुःखितामवमानिताम्।
वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः ॥ 7.58.20 ॥
अवज्ञया च राजर्षिः परिभूय च भार्गव।
मय्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते ॥ 7.58.21 ॥
तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः।
व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ॥ 7.58.22 ॥
यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान्।
जरया परया जीर्णः शैथिल्यमुपयास्यसि ॥ 7.58.23 ॥
एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः।
पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः ॥ 7.58.24 ॥
स एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य च देवयानीम्।
पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ॥ 7.58.25 ॥