तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम्।
लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ॥ 7.57.1 ॥
निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ।
पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ ॥ 7.57.2 ॥
तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः।
तां कथां कथयामास वसिष्ठस्य महात्मनः ॥ 7.57.3 ॥
यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः।
तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ ॥ 7.57.4 ॥
पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः।
नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ॥ 7.57.5 ॥
तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम्।
तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ॥ 7.57.6 ॥
कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः।
वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् ॥ 7.57.7 ॥
तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम्।
वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः ॥ 7.57.8 ॥
एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः।
कथितो निर्गमः सौम्य निमेः शृणु यथाऽभवत् ॥ 7.57.9 ॥
दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते।
तं च ते योजयामासुर्यागदीक्षां मनीषिणः ॥ 7.57.10 ॥
तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः।
गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ॥ 7.57.11 ॥
ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत्।
आनयिष्यामि ते चेतस्तुष्टोऽस्मि तव पार्थिव ॥ 7.57.12 ॥
सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन्।
वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ॥ 7.57.13 ॥
एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत्।
नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ॥ 7.57.14 ॥
बाढमित्येव विबुधा निमेश्चेतस्तदाऽब्रुवन्।
नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि ॥ 7.57.15 ॥
त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते।
वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः ॥ 7.57.16 ॥
एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम्।
ऋषयोऽपि महात्मानो निमेर्देहं समाहरन् ॥ 7.57.17 ॥
अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा।
मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ॥ 7.57.18 ॥
मथनान्मिथिरित्याहुर्जननाज्जनकोऽभवत्।
यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः ॥ 7.57.19 ॥
एवं विदेहराजश्च जनकः पूर्वकोऽभवत्।
मिथिर्नाम महातेजास्तेनायं मैथिलोऽभवत् ॥ 7.57.20 ॥