रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा।
उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ 7.56.1 ॥
निक्षिप्तदेहौ काकुत्स्य कथं तौ द्विजपार्थिवौ।
पुनर्देहेन संयोगं जग्मतुर्देवसम्मतौ ॥ 7.56.2 ॥
लक्ष्मणेनैवमुक्तस्तु रामश्चेक्ष्वाकुनन्दनः।
प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ॥ 7.56.3 ॥
तौ परस्परशापेन देहावुत्सृज्य धार्मिकौ।
अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ ॥ 7.56.4 ॥
अशरीरः शरीरस्य कृतेऽन्यस्य महामुनिः।
वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् ॥ 7.56.5 ॥
सोऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित्।
पितामहमथोवाच वायुभूत इदं वचः ॥ 7.56.6 ॥
भगवन्निमिशापेन विदेहत्वमुपागमम्।
लोकनाथ महादेव अण्डजोऽपि त्वमब्जजः ॥ 7.56.7 ॥
लुप्यन्ते सर्वकार्यणि हीनदेहस्य वै प्रभो।
देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ॥ 7.56.8 ॥
तमुवाच ततो ब्रह्मा स्वयम्भूरमितप्रभः।
मित्रावरुणजं तेज प्रविश त्वं महायशः ॥ 7.56.9 ॥
अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम।
धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ॥ 7.56.10 ॥
एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम्।
कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ॥ 7.56.11 ॥
तमेव कालं मित्रोऽपि वरुणत्वमकारयत्।
क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः ॥ 7.56.12 ॥
एतस्मिन्नेव काले तु उर्वशी परमाप्सराः।
यदृच्छया तमुद्देशमाययौ सखिभिर्वृता ॥ 7.56.13 ॥
तां दृष्ट्वा रूपसम्पन्नां क्रीडन्तीं वरुणालये।
आविशत्परमो हर्षो वरुणं चोर्वशीकृते ॥ 7.56.14 ॥
स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम्।
वरुणो वरयामास मैथुनायाप्सरोवराम् ॥ 7.56.15 ॥
प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता।
मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर ॥ 7.56.16 ॥
वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः।
इदं तेजः समुत्स्रक्ष्ये कुम्भेऽस्मिन्देवनिर्मिते ॥ 7.56.17 ॥
एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि।
कृतकामो भविष्यामि यदि नेच्छसि सङ्गमम् ॥ 7.56.18 ॥
तस्य तल्लोकपालस्य वरुणस्य सुभाषितम्।
उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ॥ 7.56.19 ॥
काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम्।
भावश्चाप्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो ॥ 7.56.20 ॥
उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम्।
ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत् ॥ 7.56.21 ॥
उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता।
तां तु मित्रः सुसङ्क्रम्य उर्वशीमिदमब्रवीत् ॥ 7.56.22 ॥
मया निमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता।
पतिमन्यं वृतवती तस्मात्त्वं दुष्टचारिणी ॥ 7.56.23 ॥
अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता।
मनुष्यलोकमास्थाय कञ्चित्कालं निवत्स्यसि ॥ 7.56.24 ॥
बुधस्य पुत्रो राजर्षिः काशीराजः पुरूरवाः।
तमद्य गच्छ दुर्बुद्धे स ते भर्ता भविष्यति ॥ 7.56.25 ॥
ततः सा शापदोषेण पुरूरवसमभ्यगात्।
प्रतियाते पुरूरवं बुधस्यात्मजमौरसम् ॥ 7.56.26 ॥
तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः।
नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः ॥ 7.56.27 ॥
वज्रमुत्सृज्य वृत्राय भ्रान्तेऽथ त्रिदिवेश्वरे।
शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ॥ 7.56.28 ॥
सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा।
बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौ च ॥ 7.56.29 ॥