एष ते नृगशापस्य विस्तरोऽभिहितो मया।
यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥ 7.55.1 ॥
एवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत्।
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ॥ 7.55.2 ॥
लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः।
कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ॥ 7.55.3 ॥
आसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम्।
पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ॥ 7.55.4 ॥
स राजा वीर्यसम्पन्नः पुरं देवपुरोपमम्।
निवेशयामास तदा अभ्याशे गौतमस्य तु ॥ 7.55.5 ॥
पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम्।
निवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ॥ 7.55.6 ॥
तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम्।
यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ॥ 7.55.7 ॥
ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम्।
वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ॥ 7.55.8 ॥
अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः।
अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ॥ 7.55.9 ॥
तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम्।
वृतोऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥ 7.55.10 ॥
अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत्।
वसिष्ठोऽपि महातेजा इन्द्रयज्ञमथाकरोत् ॥ 7.55.11 ॥
अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः।
पञ्चवर्षसहस्राणि राजा दीक्षामुपागमत् ॥ 7.55.12 ॥
इन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः।
सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ॥ 7.55.13 ॥
तदन्तरमथापश्यद्गौतमेनाभिपूरितम्।
कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ॥ 7.55.14 ॥
स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत्।
तस्मिन्नहनि राजर्षिर्निद्रयाऽपहृतो भृशम् ॥ 7.55.15 ॥
ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः।
अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ॥ 7.55.16 ॥
यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव।
चेतनेन विनाभूतो देहस्तव भविष्यति ॥ 7.55.17 ॥
ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम्।
ब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः ॥ 7.55.18 ॥
अजानतः शयानस्य क्रोधेन कलुषीकृतः।
मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ॥ 7.55.19 ॥
तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः।
देहः सुरुचिरप्रख्यो भविष्यति न संशयः ॥ 7.55.20 ॥
इति रोषवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ।
सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ॥ 7.55.21 ॥