रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित्।
उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ 7.54.1 ॥
अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः।
महान्नृगस्य राजर्षेर्यमदण्ड इवापरः ॥ 7.54.2 ॥
श्रुत्वा तु पापसंयुक्तमात्मानं पुरषर्षभ।
किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ ॥ 7.54.3 ॥
लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत्।
शृणु सौम्य यथा पूर्वं स राजा शापविक्षतः ॥ 7.54.4 ॥
अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा।
आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः ॥ 7.54.5 ॥
तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा।
दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः ॥ 7.54.6 ॥
नारदः पर्वतश्चैव मम दत्त्वा महद्भयम्।
गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ॥ 7.54.7 ॥
श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम।
यत्राहं सङ्क्षयिष्यामि शापं ब्राह्मणनिःसृतम् ॥ 7.54.8 ॥
वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा।
ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः ॥ 7.54.9 ॥
फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः।
विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः ॥ 7.54.10 ॥
क्रियतां रमणीयं च श्वभ्राणां सर्वतोदिशम्।
सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः ॥ 7.54.11 ॥
पुष्पाणि च सुगन्धीनि क्रियतां तेषु नित्यशः।
परिवार्य यथा मे स्युरध्यर्धं योजनं तथा ॥ 7.54.12 ॥
एवं कृत्वा विधानं स सन्दिदेश वसं तदा।
धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय ॥ 7.54.13 ॥
प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः।
नरश्रेष्ठ सरोषाभ्यामपराधेऽपि तादृशे ॥ 7.54.14 ॥
मा कृथास्तनुसन्तापं मत्कृतेऽपि नरर्षभ।
कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः ॥ 7.54.15 ॥
प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति।
लब्धव्यान्येव लभते दुःखानि च सुखानि च ॥ 7.54.16 ॥
पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह ॥ 7.54.17 ॥
एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः।
श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ ॥ 7.54.18 ॥
एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत्।
सम्पादयामास तदा महात्मा शापं द्विजाभ्यां हि रुषा विमुक्तम् ॥ 7.54.19 ॥