लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम्।
सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ॥ 7.53.1 ॥
दुर्लभस्त्वीदृशो बन्धुरस्मिन्काले विशेषतः।
यादृशस्त्वं महाबुद्धेर्मम सौम्य मनोऽनुगः ॥ 7.53.2 ॥
यच्च मे हृदये किञ्चिद्वर्तते शुभलक्षण।
तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ॥ 7.53.3 ॥
चत्वारो दिवसाः सौम्य कार्यं पौरजनस्य वै।
अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ॥ 7.53.4 ॥
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा।
कार्यार्थिनश्च पुरुषाः स्त्रियश्च पुरुषर्षभ ॥ 7.53.5 ॥
पौरकार्याणि यो राजा न करोति दिने दिने।
संवृते नरके घोरे पतितो नात्र संशयः ॥ 7.53.6 ॥
श्रूयते हि पुरा राजा नृगो नाम महायशाः।
बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक् शुचिः ॥ 7.53.7 ॥
स कदाचिद्गवां कोटीः सवत्साः स्वर्णभूषिताः।
नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ॥ 7.53.8 ॥
ततः सङ्गाद्गता धेनुः सवत्सा स्पर्शिताऽनघ।
ब्राह्मणस्याहिताग्नेश्च दरिद्रस्योञ्छवर्तिनः ॥ 7.53.9 ॥
स नष्टां गां क्षुधार्तो वै अन्विषंस्तत्र तत्र च।
नापश्यत्सर्वराज्येषु संवत्सरगणान्बहून् ॥ 7.53.10 ॥
ततः कनखलं गत्वा जीर्णवत्सां निरामयाम्।
ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ॥ 7.53.11 ॥
अथ तां नामधेयेन स्वकेनोवाच स द्विजः।
आगच्छ शबलेत्येवं सा तु शुश्राव गौः स्वरम् ॥ 7.53.12 ॥
तस्य तं स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वै।
अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ॥ 7.53.13 ॥
योऽपि पालयते विप्रः सोऽपि गामन्वगाद्द्रुतम्।
गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ॥ 7.53.14 ॥
स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह।
तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ॥ 7.53.15 ॥
विवदन्तौ ततोऽन्योन्यं दातारमभिजग्मतुः।
तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ॥ 7.53.16 ॥
ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ।
क्रुद्धौ परमसम्प्राप्तौ वाक्यं घोराभिसंहितम् ॥ 7.53.17 ॥
अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम्।
अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ॥ 7.53.18 ॥
बहुवर्षसहस्राणि बहुवर्षशतानि च।
श्वभ्रेऽस्मिन् कृकलासो वै दीर्घकालं वसिष्यसि ॥ 7.53.19 ॥
उत्पत्स्यते हि लोकेऽस्मिन्यदूनां कीर्तिवर्धनः।
वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः ॥ 7.53.20 ॥
स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यसि।
कृता च तेन कालेन निष्कृतिस्ते भविष्यति ॥ 7.53.21 ॥
भारावतरणार्थं हि नरनारायणावुभौ।
उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ॥ 7.53.22 ॥
एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ।
तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ॥ 7.53.23 ॥
एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ॥ 7.53.24 ॥
कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते।
तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ॥ 7.53.25 ॥
सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः।
तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ॥ 7.53.26 ॥