तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः।
प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ॥ 7.52.1 ॥
ततोऽर्धदिवसे प्राप्ते प्रविवेश महारथः।
अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् ॥ 7.52.2 ॥
सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः।
रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥ 7.52.3 ॥
तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम्।
रामस्य परमोदारं पुरस्तान्समदृश्यत ॥ 7.52.4 ॥
राज्ञस्तु भवनद्वारि सोऽवतीर्य रथोत्तमात्।
अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ॥ 7.52.5 ॥
स दृष्ट्वा राघवं दीनमासीनं परमासने।
नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ॥ 7.52.6 ॥
जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः।
उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ॥ 7.52.7 ॥
आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम्।
गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ॥ 7.52.8 ॥
तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम्।
पुनरप्यागतो वीर पादमूलमुपासितुम् ॥ 7.52.9 ॥
मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी।
त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ॥ 7.52.10 ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ 7.52.11 ॥
तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च।
नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ 7.52.12 ॥
शक्तस्त्वमात्मनाऽऽत्मानं विनेतुं मनसैव हि।
लोकान्सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ॥ 7.52.13 ॥
नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः।
अपवादः स किल ते पुनरेष्यति राघव ॥ 7.52.14 ॥
यदर्थं मैथिली त्यक्ता अपवादभयान्नृप।
सोऽपवादः पुरे राजन्भविष्यति न संशयः ॥ 7.52.15 ॥
स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः।
त्यजैनां दुर्बलां बुद्धिं सन्तापं मा कुरुष्व ह ॥ 7.52.16 ॥
एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना।
उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ॥ 7.52.17 ॥
एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण।
परितोषश्च मे वीर मम कार्यानुशासने ॥ 7.52.18 ॥
निवृत्तिश्चागता सौम्य सन्तापश्च निराकृतः।
भवद्वाक्यैः सुरुचिरैरनुनीतोऽस्मि लक्ष्मण ॥ 7.52.19 ॥