०५१ भृगु-शापः

तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना।
तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ॥ 7.51.1 ॥
पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः।
वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥ 7.51.2 ॥
तमाश्रमं महातेजाः पिता ते सुमहायशाः।
पुरोहितं महात्मानं दिदृक्षुरगमस्त्वयम् ॥ 7.51.3 ॥
स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा।
उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ॥ 7.51.4 ॥
स ताभ्यां पूजितो राजा स्वागतेनासनेन च।
पाद्येन फलमूलैश्च उवास मुनिभिः सह ॥ 7.51.5 ॥
तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः।
बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि ॥ 7.51.6 ॥
ततः कथायां कस्याञ्चित्प्राञ्जलिः प्रग्रहो नृपः।
उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ॥ 7.51.7 ॥
भगवन्किं प्रमाणेन मम वंशो भविष्यति।
किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ॥ 7.51.8 ॥
रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत्।
काम्यया भगवन्बूहि वंशस्यास्य गतिं मम ॥ 7.51.9 ॥
तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च।
दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ॥ 7.51.10 ॥
शृणु राजन्पुरावृत्तं तदा देवासुरे युधि।
दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ॥ 7.51.11 ॥
तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ॥ 7.51.12 ॥
तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः।
चक्रेण शितधारेण भृगुपत्न्याः शिरोऽहरत् ॥ 7.51.13 ॥
ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः।
शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ॥ 7.51.14 ॥
यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः।
तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन ॥ 7.51.15 ॥
तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ॥ 7.51.16 ॥
एवं शापं भृगुर्दत्वा विष्णोः स्मृत्वा च वैभवम्।
शापाभिहतचेतास्स स्वात्मना भावितोऽभवत् ॥ 7.51.17 ॥
तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः।
लोकानां संहितार्थं तु तं शापं ग्राह्यमुक्तवान् ॥ 7.51.18 ॥
इति शप्तो महातेजा भृगुणा पूर्वजन्मनि।
इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ॥ 7.51.19 ॥
राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद।
तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत् ॥ 7.51.20 ॥
[तत्र पत्नीवियोगं च दीर्घकालं गमिष्यति।] सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य येऽनुगाः ॥ 7.51.21 ॥
दश वर्षसहस्राणि दश वर्षशतानि च।
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ 7.51.22 ॥
समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः।
राजवंशांश्च बहुशो बहून्संस्थापयिष्यति ॥ 7.51.23 ॥
द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु।
अन्यत्र न त्वयोध्यायां सत्यमेतन्नसंशयः ॥ 7.51.24 ॥
सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ॥ 7.51.25 ॥
स सर्वमखिलं राज्ञो वंशस्याह गतागतम्।
आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ॥ 7.51.26 ॥
तूष्णीम्भूते तदा तस्मिन्राजा दशरथो मुनौ।
अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ॥ 7.51.27 ॥
एतद्वचो मया तत्र मुनिना व्याहृतं पुरा।
श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ॥ 7.51.28 ॥
एवं गते न सन्तापं कर्तुमर्हसि राघव।
सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ॥ 7.51.29 ॥
श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम्।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ 7.51.30 ॥
ततः संवदतोरेवं सूतलक्ष्मणयोः पथि।
अस्तमर्के गते वासं केशिन्यां तावथोषतुः ॥ 7.51.31 ॥