०५० अवश्यम्-भाविता

दृष्ट्वा तु मैथिलीं सीतामाश्रमे सम्प्रवेशिताम्।
सन्तापमगमद्घोरं लक्ष्मणो दीनचेतनः ॥ 7.50.1 ॥
अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम्।
सीतासन्तापजं दुःखं पश्य रामस्य सारथे ॥ 7.50.2 ॥
ततो दुःखतरं किं नु राघवस्य भविष्यति।
पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ॥ 7.50.3 ॥
व्यक्तं दैवादहं मन्ये राघवस्य विना भवम्।
वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ॥ 7.50.4 ॥
यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः।
निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते ॥ 7.50.5 ॥
पुरा रामः पितुर्वाक्याद्दण्डके विजने वने।
उषित्वा नव वर्षाणि पञ्च चैव महावने ॥ 7.50.6 ॥
ततो दुःखतरं भूयः सीताया विप्रवासनम्।
पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ॥ 7.50.7 ॥
को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे।
मैथिलीं प्रतिसम्प्राप्तः पौरैर्हीनार्थवादिभिः ॥ 7.50.8 ॥
एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः।
सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ॥ 7.50.9 ॥
न सन्तापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति।
दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ॥ 7.50.10 ॥
भविष्यति दृढं रामो दुःखप्रायोऽपि सौख्यभाक्।
प्राप्स्यते च महाबाहुर्विप्रयोगं प्रियैर्ध्रुवम् ॥ 7.50.11 ॥
त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ।
सन्त्यजिष्यति धर्मात्मा कालेन महता महान् ॥ 7.50.12 ॥
इदं त्वयि न वक्तव्यं सौमित्रे भरतेऽपि वा।
राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ॥ 7.50.13 ॥
महाजनसमीपे च मम चैव नरर्षभ।
ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ॥ 7.50.14 ॥
ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः।
सूत न क्वचिदेवं ते वक्तव्यं जनसन्निधौ ॥ 7.50.15 ॥
तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः।
नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ॥ 7.50.16 ॥
सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः।
यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ॥ 7.50.17 ॥
यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा।
तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ॥ 7.50.18 ॥
येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम्।
न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ॥ 7.50.19 ॥
तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत्।
तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ॥ 7.50.20 ॥