सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः।
प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ॥ 7.49.1 ॥
अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये।
सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ॥ 7.49.2 ॥
अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः।
पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना ॥ 7.49.3 ॥
भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम्।
नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता ॥ 7.49.4 ॥
दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा।
अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् ॥ 7.49.5 ॥
न ह्येनां मानुषीं विद्मः सत्क्रियाऽस्याः प्रयुज्यताम्।
आश्रमस्याविदूरे च त्वामियं शरणं गता ॥ 7.49.6 ॥
तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित्।
तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली ॥ 7.49.7 ॥
तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम्।
तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः ॥ 7.49.8 ॥
अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत्।
ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ॥ 7.49.9 ॥
तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः।
उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ॥ 7.49.10 ॥
स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया।
जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ॥ 7.49.11 ॥
आयान्ती चासि विज्ञाता मया धर्मसमाधिना।
कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ॥ 7.49.12 ॥
तव चैव महाभागे विदितं मम तत्त्वतः।
सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ॥ 7.49.13 ॥
अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा।
विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे ॥ 7.49.14 ॥
आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः।
तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ॥ 7.49.15 ॥
इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा।
यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ॥ 7.49.16 ॥
श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम्।
शिरसाऽऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः ॥ 7.49.17 ॥
तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतोऽन्वगात् ॥ 7.49.18 ॥
तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः।
उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ॥ 7.49.19 ॥
स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते।
अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे ॥ 7.49.20 ॥
तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत्।
सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ॥ 7.49.21 ॥
स्नुषा दशरथस्यैषा जनकस्य सुता सती।
अपापा पतिना त्यक्ता परिपाल्या मया सदा ॥ 7.49.22 ॥
इमां भवन्त्यः(?) पश्यन्तु स्नेहेन परमेण हि।
गौरवान्मम वाक्याच्च पूज्या वोऽस्तु विशेषतः ॥ 7.49.23 ॥
मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः।
स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ॥ 7.49.24 ॥