०४८ सीता-विलापः

लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा।
परं विषादमागम्य वैदेही निपपात ह ॥ 7.48.1 ॥
सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा।
लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ॥ 7.48.2 ॥
मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण।
धात्रा यस्यास्तथा मेऽद्य दुःखमूर्तिः प्रदृश्यते ॥ 7.48.3 ॥
किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः।
याऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ॥ 7.48.4 ॥
पुराऽहमाश्रमे वासं रामपादानुवर्तिनी।
अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ॥ 7.48.5 ॥
सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता।
आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ॥ 7.48.6 ॥
किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम्।
कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना ॥ 7.48.7 ॥
न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले।
त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ॥ 7.48.8 ॥
यथाज्ञं कुरु सोमित्रे त्यज मां दुःखभागिनीम्।
निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ॥ 7.48.9 ॥
श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च।
शिरसाऽऽवन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ॥ 7.48.10 ॥
शिरसाऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण।
वक्तव्यश्चापि नृपतिर्धर्मेषु सुसमाहितः ॥ 7.48.11 ॥
जानासि च यथा शुद्धा सीता तत्त्वेन राघव।
भक्त्या च परया युक्ता हिता च तव नित्यशः ॥ 7.48.12 ॥
यच्च ते वचनीयं स्यादपवादसमुत्थितम्।
मया च परिहर्तव्यं त्वं हि मे परमा गतिः ॥ 7.48.13 ॥
वक्तव्यश्चेति नृपतिर्धमेण सुसमाहितः।
यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ॥ 7.48.14 ॥
परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ॥ 7.48.15 ॥
यत्तु पौरजनो राजन्धर्मेण समवाप्नुयात्।
अहं तु नानुशोचामि स्वशरीरं नरर्षभ ॥ 7.48.16 ॥
यथापवादं पौराणां तथैव रघुनन्दन।
पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ॥ 7.48.17 ॥
इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः।
निरीक्ष्य माऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ॥ 7.48.18 ॥
एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः।
शिरसाऽऽवन्द्य धरणीं व्याहर्तुं न शशाक ह ॥ 7.48.19 ॥
प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः।
ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने ॥ 7.48.20 ॥
दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे।
कथमत्र हि पश्यामि रामेण रहितां वने ॥ 7.48.21 ॥
इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत्।
आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ॥ 7.48.22 ॥
स गत्वा चोत्तरं तीरं शोकभारसमन्वितः।
सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ॥ 7.48.23 ॥
मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत्।
चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ॥ 7.48.24 ॥
दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः।
निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् ॥ 7.48.25 ॥
सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती।
रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ॥ 7.48.26 ॥