अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः।
आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ॥ 7.47.1 ॥
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः।
उवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ॥ 7.47.2 ॥
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः।
उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः ॥ 7.47.3 ॥
हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता।
अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ॥ 7.47.4 ॥
श्रेयो हि मरणं मेऽद्य मृत्युर्वा यत्परं भवेत्।
न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ॥ 7.47.5 ॥
प्रसीद च न मे पापं कर्तुमर्हसि शोभने।
इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ॥ 7.47.6 ॥
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः।
मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ॥ 7.47.7 ॥
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण।
पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ॥ 7.47.8 ॥
शापितोऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः।
तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ॥ 7.47.9 ॥
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः।
अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ॥ 7.47.10 ॥
पुरे जनपदे चैव त्वत्कृते जनकात्मजे।
रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः ॥ 7.47.11 ॥
न तानि वचनीयानि मया देवि तवाग्रतः।
यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः ॥ 7.47.12 ॥
सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ।
पौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा ॥ 7.47.13 ॥
आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि।
राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् ॥ 7.47.14 ॥
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम्।
पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ॥ 7.47.15 ॥
राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः।
सखा परमको विप्रो वाल्मीकिः सुमहायशाः ॥ 7.47.16 ॥
पादच्छायामुपागम्य सुखमस्य महात्मनः।
उपवासपरैकाग्रा वस त्वं जनकात्मजे ॥ 7.47.17 ॥
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि।
श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ॥ 7.47.18 ॥