ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः।
सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ॥ 7.46.1 ॥
सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे।
स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ॥ 7.46.2 ॥
सीता हि राजवचनादाश्रमं पुण्यकर्मणाम्।
मया नेया महर्षीणां श्रीघ्रमानीयतां रथः ॥ 7.46.3 ॥
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः।
रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ॥ 7.46.4 ॥
आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम्।
रथोऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ॥ 7.46.5 ॥
एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः।
प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ॥ 7.46.6 ॥
त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः।
नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ॥ 7.46.7 ॥
शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः।
अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि ॥ 7.46.8 ॥
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना।
प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ॥ 7.46.9 ॥
वासांसि च महार्हाणि रत्नानि विविधानि च।
गृहीत्वा तानि वैदेही गमनायोपचक्रमे ॥ 7.46.10 ॥
इमानि मुनिपत्नीनां दास्याम्याभरणान्हम्।
वस्त्राणि च महार्हाणि धनानि विविधानि च ॥ 7.46.11 ॥
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम्।
प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ॥ 7.46.12 ॥
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम्।
अशुभानि बहून्येव पश्यामि रघुनन्दन ॥ 7.46.13 ॥
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते।
हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ॥ 7.46.14 ॥
औत्सुक्यं परमं चापि अधृतिश्च परा मम।
शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ॥ 7.46.15 ॥
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल।
श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ॥ 7.46.16 ॥
पुरे जनपदे चैव कुशलं प्राणिनामपि।
इत्यञ्जलिकृता सीता देवता अभ्ययाचत ॥ 7.46.17 ॥
लक्ष्मणोऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम्।
शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ॥ 7.46.18 ॥
ततो वासमुपागम्य गोमतीतीर आश्रमे।
प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ॥ 7.46.19 ॥
योजयस्व रथं शीघ्रमद्य भागीरथीजलम्।
शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ॥ 7.46.20 ॥
सोऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान्।
आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ॥ 7.46.21 ॥
सा तु सूतस्य वचनादारुरोह रथोत्तमम्।
सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ॥ 7.46.22 ॥
आससाद विशालाक्षी गङ्गां पापविनाशिनीम्।
अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ॥ 7.46.23 ॥
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः ॥ 7.46.24 ॥
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम्।
उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ॥ 7.46.25 ॥
जाह्नवीतीरमासाद्य चिराभिलषितं मम।
हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ॥ 7.46.26 ॥
नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ।
कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ॥ 7.46.27 ॥
ममापि दयितो रामो जीवितादपि लक्ष्मण।
न चाहमेवं शोचामि मैवं त्वं बालिशो भव ॥ 7.46.28 ॥
तारयस्व च मां गङ्गां दर्शयस्व च तापसान्।
ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च ॥ 7.46.29 ॥
ततः कृत्वा महर्षीणां यथार्हमभिवादनम्।
तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ॥ 7.46.30 ॥
ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम्।
त्वरते हि मनो द्रष्टुं रामं रमयतां वरम् ॥ 7.46.31 ॥
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे।
नाविकानाह्वयामास लक्ष्मणः परवीरहा ॥ 7.46.32 ॥
इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयोऽब्रुवन् ॥ 7.46.33 ॥
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत्।
गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः ॥ 7.46.34 ॥