तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः।
कथानां बहुरूपाणां हास्यकाराः समन्ततः ॥ 7.43.1 ॥
विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः।
सुराजः कालियो भद्रो दन्तवक्रः सुमागधः ॥ 7.43.2 ॥
एते कथा बहुविधाः परिहाससमन्विताः।
कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ॥ 7.43.3 ॥
ततः कथायां कस्याञ्चिद्राघवः समभाषत।
काः कथा नगरे भद्र वर्तन्ते विषयेषु च ॥ 7.43.4 ॥
मामाश्रितानि कान्याहुः पौरजानपदा जनाः।
किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम् ॥ 7.43.5 ॥
किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम्।
वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ॥ 7.43.6 ॥
एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत्।
स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम् ॥ 7.43.7 ॥
अमुं तु विजयं सौम्य दशग्रीववधार्जितम्।
भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ॥ 7.43.8 ॥
एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत्।
कथयस्व यथातत्त्वं सर्वं निरवशेषतः ॥ 7.43.9 ॥
शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः।
श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च ॥ 7.43.10 ॥
कथयस्व च विस्रब्धो निर्भयं विगतज्वरः।
कथयन्ति यथा पौराः पापा जनपदेषु च ॥ 7.43.11 ॥
राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः।
प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ॥ 7.43.12 ॥
शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम्।
चत्वरापणरथ्यासु वनेषूपवनेषु च ॥ 7.43.13 ॥
दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम्।
अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ॥ 7.43.14 ॥
रावणश्च दुराधर्षो हतः सबलवाहनः।
वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ॥ 7.43.15 ॥
हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः।
अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ॥ 7.43.16 ॥
कीदृशं हृदये तस्य सीतासम्भोगजं सुखम्।
अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ॥ 7.43.17 ॥
लङ्कामपि पुरा नीतामशोकवनिकां गताम्।
रक्षसां वशमापन्नां कथं रामो न कुत्सते ॥ 7.43.18 ॥
अस्माकमपि दारेषु सहनीयं भविष्यति।
यथा हि कुरुते राजा प्रजा तमनुवर्तते ॥ 7.43.19 ॥
एवं बहुविधा वाचो वदन्ति पुरवासिनः।
नगरेषु च सर्वेषु राजञ्जनपदेषु च ॥ 7.43.20 ॥
तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत्।
उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम् ॥ 7.43.21 ॥
सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च।
प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ॥ 7.43.22 ॥
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम्।
विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ॥ 7.43.23 ॥