०४२ सीता-दौर्हृदम्

स विसृज्य ततो रामः पुष्पकं हेमभूषितम्।
प्रविवेश महाबाहुरशोकवनिकां तदा ॥ 7.42.1 ॥
चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि।
देवदारुवनैश्चापि समन्तादुपशोभिताम् ॥ 7.42.2 ॥
चम्पकाशोकपुन्नागमधूकपनसासनैः।
शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ॥ 7.42.3 ॥
लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः।
मन्दारकदलीगुल्मलताजालसमावृताम् ॥ 7.42.4 ॥
प्रियङ्गुभिः कदम्बैश्च तथा च वकुलैरपि।
जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ॥ 7.42.5 ॥
सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः।
दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ॥ 7.42.6 ॥
तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः।
चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः ॥ 7.42.7 ॥
कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः।
शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ॥ 7.42.8 ॥
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः।
नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ॥ 7.42.9 ॥
सुरभीणि च पुष्पाणि माल्यानि विविधानि च।
दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ॥ 7.42.10 ॥
माणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः।
फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ॥ 7.42.11 ॥
दात्यूहशुकसङ्घुष्टा हंससारसनादिताः।
तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ॥ 7.42.12 ॥
प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः।
तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ॥ 7.42.13 ॥
शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम्।
तत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम् ॥ 7.42.14 ॥
नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा।
तथाभूतं हि रामस्य काननं सन्निवेशनम् ॥ 7.42.15 ॥
बह्वासनगृहोपेतां लतागृहसमावृताम्।
अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ॥ 7.42.16 ॥
आसने च शुभाकारे पुष्पप्रकरभूषिते।
कुशास्तरणसंस्तीर्णे रामः सन्निषसाद ह ॥ 7.42.17 ॥
सीतामादायं हस्तेन मधुमैरेयकं शुचि।
पाययामास काकुत्स्थः शचीमिव पुरन्दरः ॥ 7.42.18 ॥
मांसानि च समृष्टानि फलानि विविधानि च।
रामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन् ॥ 7.42.19 ॥
उपानृत्यंश्च राजानं नृत्यगीतविशारदाः।
बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः ॥ 7.42.20 ॥
मनोभिरामा रामास्ता रामो रमयतां वरः।
रमयामास धर्मात्मा नित्यं परमभूषितः ॥ 7.42.21 ॥
स तया सीतया सार्धमासीनो विरराज ह।
अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ॥ 7.42.22 ॥
एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम्।
रमयामास वैदेहीमहन्यहनि देववत् ॥ 7.42.23 ॥
तथा तयोर्विहरतोः सीताराघवयोश्चिरम्।
अत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा ॥ 7.42.24 ॥
दशवर्षसहस्राणि गतानि सुमहात्मनोः।
प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ॥ 7.42.25 ॥
पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित्।
शेषं दिवसभागार्धमन्तःपुरगतोऽभवत् ॥ 7.42.26 ॥
सीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै।
श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ॥ 7.42.27 ॥
अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा।
त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ॥ 7.42.28 ॥
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम्।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ 7.42.29 ॥
अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम्।
अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ॥ 7.42.30 ॥
किमिच्छसि वरारोहे कामः किं क्रियतां तव ॥ 7.42.31 ॥
स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत्।
तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥ 7.42.32 ॥
गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम्।
फलमूलाशिनां देव पादमूलेषु वर्तितुम् ॥ 7.42.33 ॥
एष मे परमः कामो यन्मूलफलभोजिनाम्।
अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने ॥ 7.42.34 ॥
तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा।
विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ॥ 7.42.35 ॥
एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम्।
मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ॥ 7.42.36 ॥