०४१ पुष्पक-प्रेषणम्

विसृज्य च महाबाहुर्ऋक्षवानरराक्षसान्।
भ्रातृभिः सहितो रामः प्रमुमोद सुखं सुखी ॥ 7.41.1 ॥
अथापराह्णसमये भ्रातृभिः सह राघवः।
शुश्राव मधुरां वाणीमन्तरिक्षात् प्रभाषिताम् ॥ 7.41.2 ॥
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम्।
कुबेरभवनात्प्राप्तं विद्धि मां पुष्पकं प्रभो ॥ 7.41.3 ॥
तव शासनमाज्ञाय गतोऽस्मि भवनं प्रति।
उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत ॥ 7.41.4 ॥
निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना।
निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ॥ 7.41.5 ॥
ममापि परमा प्रीतर्हते तस्मिन्दुरात्मनि।
रावणे सगणे चैव सपुत्रे सहबान्धवे ॥ 7.41.6 ॥
स त्वं रामेण लङ्कायां निर्जितः परमात्मना।
वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥ 7.41.7 ॥
परमो ह्येष मे कामो यत्त्वं राघवनन्दनम्।
वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ॥ 7.41.8 ॥
सोऽहं शासनमाज्ञाय धनदस्य महात्मनः।
त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ॥ 7.41.9 ॥
अदृष्यः सर्वभूतानां सर्वेषां धनदाज्ञया।
चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ॥ 7.41.10 ॥
एवमुक्तस्तदा रामः पुष्पकेण महाबलः।
उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ॥ 7.41.11 ॥
यद्येवं स्वागतं तेऽस्तु विमानवर पुष्पक।
आनुकूल्याद्धनेशस्य वृत्तदोषो न नो भवेत् ॥ 7.41.12 ॥
लाजैश्चैव तथा पुष्पैर्धूपैश्चैव सुगन्धिभिः।
पूजयित्वा महाबाहू राघवः पुष्पकं तदा ॥ 7.41.13 ॥
सिद्धानां च गतौ सौम्य मा विषादेन योजय।
प्रतिघातश्च ते मा भूद्यथेष्टं गच्छतो दिशः ॥ 7.41.14 ॥
एवमस्त्विति रामेण पूजयित्वा विसर्जितम्।
अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ॥ 7.41.15 ॥
एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि।
भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ॥ 7.41.16 ॥
विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति।
अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ॥ 7.41.17 ॥
अनामयश्च सत्वानां साग्रो मासो गतो ह्ययम्।
जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ॥ 7.41.18 ॥
अरोगप्रसवा नार्यो वपुष्मन्तो हि मानवाः।
हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ॥ 7.41.19 ॥
काले वर्षति पर्जन्यः पातयन्नमृतं पयः।
वाताश्चापि प्रवान्त्येते स्पर्शयुक्ताः सुखाः शिवाः ॥ 7.41.20 ॥
ईदृशोऽनश्वरो राजा भवेदिति नरेश्वरः।
कथयन्ति पुरे राजन्पौरजानपदास्तथा ॥ 7.41.21 ॥
एता वाचः सुमधुरा भरतेन समीरिताः।
श्रुत्वा रामो मुदा युक्तो बभूव नृपसत्तमः ॥ 7.41.22 ॥