०४० सुग्रीव-विभीषणादि-प्रेषणम्

तथा स्म तेषां वसतामृक्षवानररक्षसाम्।
राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ॥ 7.40.1 ॥
गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः।
पालयस्व सहामात्यो राज्यं निहतकण्टकम् ॥ 7.40.2 ॥
अङ्गदं च महाबाहो प्रीत्या परमया युतः।
पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ॥ 7.40.3 ॥
सुषेणं श्वशुरं वीरं तारं च बलिनां वरम्।
कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ॥ 7.40.4 ॥
गजं गवाक्षं गवयं शरभं च महाबलम्।
पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ॥ 7.40.5 ॥
[केशरिं शरभं शुम्भं शङ्खचूडं महाबलम्।] ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ॥ 7.40.6 ॥
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥ 7.40.7 ॥
एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः।
विभीषणमुवाचाथ रामो मधुरया गिरा ॥ 7.40.8 ॥
लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम।
पुरस्य राक्षसानां च स्वभ्रातुस्सम्मतो ह्यसि ॥ 7.40.9 ॥
मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन।
बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ॥ 7.40.10 ॥
अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया।
स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ॥ 7.40.11 ॥
रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः।
साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ॥ 7.40.12 ॥
तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च।
माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ॥ 7.40.13 ॥
तेषामेवं ब्रुवाणानां वानराणां च राक्षसाम्।
हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत् ॥ 7.40.14 ॥
स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा।
भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ॥ 7.40.15 ॥
वायद्रामकथा वीर चरिष्यति महीतले।
तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ॥ 7.40.16 ॥
यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन।
तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ॥ 7.40.17 ॥
तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो।
उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ॥ 7.40.18 ॥
एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात्।
उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ॥ 7.40.19 ॥
चरिष्यति कथा यावदेषा लोके च मामिका।
तावत्ते भविता कीर्तिः शरीरेऽप्यसवस्तथा ॥ 7.40.20 ॥
लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ॥ 7.40.21 ॥
मदङ्गे जीर्णतां यातु यत्त्वयोपकृतं कपे ॥ ] नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम् ॥ 7.40.22 ॥
ततोऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः।
वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ॥ 7.40.23 ॥
तेनोरसि निबद्धेन हारेण महता कपिः।
रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥ 7.40.24 ॥
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः।
प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ॥ 7.40.25 ॥
सुग्रीवः स च रामेण निरन्तरमुरोगतः।
विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ॥ 7.40.26 ॥
सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः।
सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ॥ 7.40.27 ॥
कृतप्रसादास्तेनैवं राघवेण महात्मना।
जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ॥ 7.40.28 ॥
ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम्।
वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ॥ 7.40.29 ॥