०३८ राज-प्रेषणम्

एवमास्ते महाबाहुरहन्यहनि राघवः।
प्रशासत्सर्वकार्याणि पौरजानपदेषु च ॥ 7.38.1 ॥
ततः कतिपयाहःसु वैदेहं मिथिलाधिपम्।
राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ 7.38.2 ॥
भवान्हि गतिरव्यग्रा भवता पालिता वयम्।
भवतस्तेजसोग्रेण रावणो निहतो मया ॥ 7.38.3 ॥
इक्ष्वाकूणां च सर्वेषां मैथिलानां च सर्वशः।
अतुलाः प्रीतयो राजन्सम्बन्धकपुरोगमाः ॥ 7.38.4 ॥
तद्भवान्स्वपुरं यातु रत्नान्यादाय पार्थिव।
भरतश्च सहायार्थं पृष्ठतस्तेऽनुयास्यति ॥ 7.38.5 ॥
स तथेति नृपः कृत्वा राघवं वाक्यमब्रवीत्।
प्रीतोऽस्मि भवतो राजन्दर्शनेन नयेन च ॥ 7.38.6 ॥
यान्येतानि तु रत्नानि मदर्थं सञ्चितानि वै।
दुहित्रे तानि वै राजन्सर्वाण्येव ददामि च ॥ 7.38.7 ॥
एवमुक्त्वा तु काकुत्स्थं जनको हृष्टमानसः।
प्रययौ मिथिलां श्रीमांस्तमनुज्ञाय राघवम् ॥ 7.38.8 ॥
ततः प्रयाते जनके केकयं मातुलं प्रभुः।
राघवः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ 7.38.9 ॥
इदं राज्यमहं चैव भरतश्च सलक्ष्मणः।
आयत्तास्त्वं हि नो राजन्गतिश्च पुरुषर्षभ ॥ 7.38.10 ॥
राजा हि वृद्धः सन्तापं त्वदर्थमुपयास्यति।
तस्माद्गमनमद्यैव रोचते तव पार्थिव ॥ 7.38.11 ॥
लक्ष्मणेनानुयात्रेण पृष्ठतोऽनुगमिष्यते।
धनमादाय विपुलं रत्नानि विविधानि च ॥ 7.38.12 ॥
युधाजित्तु तथेत्याह गमनं प्रति राघवम्।
रत्नानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ॥ 7.38.13 ॥
प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः।
रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ॥ 7.38.14 ॥
लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः।
हतेऽसुरे यथा वृत्रे विष्णुना सह वासवः ॥ 7.38.15 ॥
तं विसृज्य ततो रामो वयस्यमकुतोभयम्।
प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् ॥ 7.38.16 ॥
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम्।
उद्योगश्च कृतो राजन्भरतेन त्वया सह ॥ 7.38.17 ॥
तद्भवानद्य काशेय पुरीं वाराणसीं व्रज।
रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ॥ 7.38.18 ॥
एतावदुक्त्वा चोत्थाय काकुत्स्थः परमासनात्।
पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् ॥ 7.38.19 ॥
राघवेणाभ्यनुज्ञातः काशीशोऽप्यकुतोभयः।
वाराणसीं ययौ तूर्णं राघवेण विसर्जितः ॥ 7.38.20 ॥
विसृज्य तं काशिपतिं त्रिशतं पृथिवीपतीन्।
प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् ॥ 7.38.21 ॥
भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता।
धर्मश्च नियतो नित्यं सत्यं च भवतां सदा ॥ 7.38.22 ॥
युष्माकं चानुभावेन तेजसा च महात्मनाम्।
हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधमः ॥ 7.38.23 ॥
हेतुमात्रमहं तत्र भवतां तेजसा हतः।
रावणः सगणो युद्धे सपुत्रामात्यबान्धवः ॥ 7.38.24 ॥
भवन्तश्च समानीता भरतेन महात्मना।
श्रुत्वा जनकराजस्य काननात्तनयां हृताम् ॥ 7.38.25 ॥
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम्।
कालो व्यतीतः सुमहान्गमनं रोचयाम्यतः ॥ 7.38.26 ॥
प्रत्यूचुस्तं च राजानो हर्षेण महता वृताः।
दिष्ट्यां त्वं विजयी राम स्वराज्येऽपि प्रतिष्ठितः ॥ 7.38.27 ॥
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः।
एष नः परमः काम एषा नः पीतिरुत्तमा ॥ 7.38.28 ॥
यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ॥ 7.38.29 ॥
एतत्त्वय्युपपन्नं च यदस्मांस्त्वं प्रशंससे।
प्रशंसार्ह न जानीमः प्रशंसां वक्तुमीदृशीम् ॥ 7.38.30 ॥
वर्तामहे महाबाहो प्रीत्यात्र महता वृताः।
भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा ॥ 7.38.31 ॥
बाढमित्येव राजानो हर्षेण परमान्विताः।
उचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः ॥ 7.38.32 ॥
पूजिताश्चैव रामेण जग्मुर्देशान्स्वकान्स्वकान् ॥ 7.38.33 ॥