०३७ सभा-प्रवेशः

अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि।
व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ॥ 7.37.1 ॥
तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः।
वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ॥ 7.37.2 ॥
ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः।
तुष्टुवुर्नपतिं वीरं यथावत् सम्प्रहर्षिणः ॥ 7.37.3 ॥
वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन।
जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ॥ 7.37.4 ॥
विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव।
बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ॥ 7.37.5 ॥
क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः।
वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ॥ 7.37.6 ॥
अप्रकम्प्यो यता स्थाणुश्चन्द्रे सौम्यत्वमीदृशम्।
नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ॥ 7.37.7 ॥
यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः।
न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ ॥ 7.37.8 ॥
श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ।
एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः ॥ 7.37.9 ॥
सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम्।
स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ॥ 7.37.10 ॥
स तद्विहाय शयनं पाण्डराच्छादनास्तृतम्।
उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ॥ 7.37.11 ॥
तमुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः।
सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः ॥ 7.37.12 ॥
कृतोदकशुचिर्भूत्वा काले हुतहुताशनः।
देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम् ॥ 7.37.13 ॥
तत्र देवान्पितॄन्विप्रानर्चयित्वा यथाविधि।
बाह्यकक्षान्तरं रामो निर्जगाम जनैर्वृतः ॥ 7.37.14 ॥
उपतस्थुर्महात्मानो मन्त्रिणः सपुरोहिताः।
वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः ॥ 7.37.15 ॥
क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः।
रामस्योपाविशन्पार्श्वे शक्रस्येव यथाऽमराः ॥ 7.37.16 ॥
भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः।
उपासाञ्चक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् ॥ 7.37.17 ॥
याताः प्राञ्जलयो भूत्वा किङ्करा मुदिताननाः।
मुदिता नाम पार्श्वस्था बहवः समुपाविशन् ॥ 7.37.18 ॥
वानराश्च महावीर्या विंशतिः कामरूपिणः।
सुग्रीवप्रमुखा राममुपासन्ते महौजसः ॥ 7.37.19 ॥
विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः।
उपासते महात्मानं धनेशमिव गुह्यकाः ॥ 7.37.20 ॥
तथा निगमवृद्धाश्च कुलीना ये च मानवाः।
शिरसाऽऽवन्द्य राजानमुपासन्ते विचक्षणाः ॥ 7.37.21 ॥
तथा परिवृतो राजा श्रीमद्भिर्ऋषिभिर्वृतः।
राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः ॥ 7.37.22 ॥
यथा देवेश्वरो नित्यमृषिभिः समुपास्यते।
अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते ॥ 7.37.23 ॥
तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः।
कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः ॥ 7.37.24 ॥